________________ 162 सुशीलनाममालायां * विविधधूपनामानि . .. पायसो' क्षीरधूप इच, दध्याह्वयो घृताह्वयः / क्षीराह्वय श्च श्रीवासः, श्रीवेष्टः सरलद्रवः // 1050 // स्थानांत् स्थानान्तरं गच्छन्, धूपो गन्धपिशाचिका' / * हस्तबिम्बनाम * स्थासको' हस्तबिम्बं च, कथ्यते हस्तथापकः // 1051 // * अलङ्कारनामानि * प्राभरण'-मलङ्कारः२, परिष्कार' श्च भूषणम् / ज्ञायतां भूषणं विश्वे, विभिन्न भूषणं पुनः // 1052 // * विभिन्नभूषणनामानि * चूडारत्नं चूडामणि:२, शिरोरत्नं शिरोमणिः / तरलो' नायक श्चापि, हारान्तमरिण उच्यते // 1053 // . * मुकुटनामानि * उष्णीष' मुकुटं मौलिः, किरीट मकुट५ स्तथा। कोटीरं चेति नामानि, मन्यते मुकटस्य हि // 1054 // ॐ मालानामानि * मूनि माल्य' च माला च, सक् तथा पुष्पदाम च /