________________ 130 सुशीलनाममालायां के दौहित्रनाम के दौहित्र' श्चापि नप्ता हि, मन्यते दुहितुः सुतः / / 866 / / ॐ प्रपौत्रनाम * प्रतिनप्ता' प्रपौत्रो ऽपि, पौत्रपुत्र उदाहृतः / * परम्परनाम * प्रपौत्रस्यात्मजो लोके, परम्पर' ३च 'कथ्यते // 87 // * पैतृष्व सेयनाम * पितृष्वसुः सुतो लोके, पैतृष्वसेय' उच्यते / पैतृष्वस्रीयइत्यस्ति, द्वितीयं नाम तस्य वै / / 871 / / * मातृष्वसेयनाम * मातृष्वसुः सुतो लोके, मातृष्वसेयः' कथ्यते / मातृष्वसीय इत्यस्ति, द्वितीयं नाम तस्य हि // 872 // * विमातृजनाम के विमातुरात्मजो लोके, वैमात्रेयो' विमातृजः / * द्विमातृजनाम * द्वयो त्रिोः सुत स्तावद, द्वैमातुरो' द्विमातृजः // 873 //