________________ 120 सुशीलनाममालायां * दम्पतीनामानि * दम्पतो' जम्पतो जाया,-पती भार्यापती तथा। वरवध्वो स्तु नामानि, पतिपत्न्योः तथैव च // 21 // ___ * दायनामानि .. सुदायो' युतयोर्देयं, यौतकर हरणं तथा। दाय श्चेत्यपि नामापि, कथ्यते स्त्रीहिते धने / / 822 // * महिषीनाम * अभिषेकवतो राज्ञी, महिषी' कथ्यते बुधः / अन्या नृप स्त्रियः प्रायो, भोगिन्यो' विदिताः किल / / 823 // . . * सैरन्ध्रीनाम * स्वतन्त्रा चा ऽन्यवेश्मस्था, पुनश्च शिल्पजीविनी। सैरन्ध्री' या प्रसिद्धा सा, कथ्यते कोविदः किल // 824 // * असिक्नोनाम * नृपस्या ऽन्तःपुरप्रेष्या, साऽसिक्नी' कथ्यते जनः / * दूतीनाम * दूती' सञ्चारिका चेति, दूत्यर्थे वर्तते ऽत्र हि // 25 //