________________ 84. सुशीलनाममालायां अदनं१६ स्वदनं 7 प्सानं१८, निघस' श्चापि वल्भनम् // 639 / / अशनं 2' प्रत्यवसानं२२, चेति नामानि वै घसेः / * चर्वणनाम * . कथ्यते चूर्णनं तन्तै, श्चरणं पण्डितै जनैः / * लेहननाम * जिह्वास्वादो हि शब्दोऽपि, कथितं लेहनं पुनः // 640 // * प्रात:कालिक भोजननाम * प्रातःकालघसे नाम, प्रातराशो' हि कथ्यते / पुनरपि कल्यवतः२, सन्धि' स्तु सहभोजनम् // 641 / / * ग्रासनामानि * ग्रासो' गुड 2 श्च गण्डोलो, गडोल श्च गुडेरकः / कवक: कवलः पिण्ड,-श्चेत्यादि ग्रासनामका: // 642 // * तृप्तनामानि * पाघ्रातः' मुहित स्तृप्तः, आघ्राण श्चाशितः पुनः / * तृप्तिनामानि * . सौहित्य' तृप्ति राघ्राणं', भोजन रिह जायते // 43 //