________________ 52 सुशीलनाममालायां नर्तनं नटनं नृत्यं 3, नृत्तं नाट्य च ताण्डवान् / . . लास्य ज्वेति हि नामानि, कथ्यन्ते कोविदः किल // 405 / / स्त्रीमण्डलेन यन्नृत्य, ज्ञेयं हल्लीसक' हि तत् / मद्यगनेन यन्नृत्यमुच्चतालं' तु कथ्यते // 40 // समराङ्गणे च यत्नृत्यं ज्ञेयं वीरजयन्तिका' / नाट्यस्थानं तु रङ्गः स्यात्, पूर्वरङ्गो' ऽप्युपक्रमः / 407 / / अङ्गहारो' ऽङ्गविक्षेपो व्यञ्जको' ऽभिनयो भवेत् / चतुर्विधानि नामानि प्रथितानि च यथाक्रमम् // 408 // पाहार्यो' ऽभिनयो ज्ञेयो, रचितो भूषणादिना। वाचिको वचसा चैव तथाऽङ्गेनाऽऽङ्गिक:3 किल // 406 // सत्त्वेन सात्त्विक श्वैत्र, कथ्यते कोविदः खलु / अथ स्यान्नाटकं' भाणः', तथा प्रहसनं डिमः / / 4:0 // अङ्कः प्रकुरणं चैव, व्यायोगेहा मृगौ तधा। वीथोऽसमवकार' श्च, नाटकादौ प्रयुज्यते / / 411 // षट् संस्कृतादिकाः भाषाः, कथ्यन्ते क्रमशो यथा। . संस्कृतं' प्राकृतं' शौरसेनी पैशाच -मागधी // 412 // अपभ्रंशोऽपि विज्ञेयो, नृत्य-गीताऽभिनेयके। भारती' सात्वती चापि, कौशिक्या रभटी तथा // 413 //