________________ एतद्व्याकरणस्थानां कतिपयप्रयोगाणां सिद्धावुपयोगीनि कानिचित् सूत्राण्यत्र न दृश्यन्ते यथा व्यञ्जनसन्धौ 1 हसात् परस्य झसस्य लोपो वा सवर्णे झसे / भवाञ् छूरः भवाञ्च् छूरः। ___ स्वरान्तस्त्रीलिङ्गे२ ( अडागमाभावे आमोऽप्यमावः) बुद्धौ, बुद्ध्याम् / ___ हसान्तपुंलिङ्गे३ शसे वा। विसर्जनीयस्य शषसे परे वा सकारो भवति / दोष्षु, दोःषु / कश्शेते, कः शेते / युष्मदस्मत्प्रक्रियायाम्४ युष्मदस्मदोः शसो नो वक्तव्यः / युष्मान् , अस्मान् / . स्त्रीप्रत्यये५ हसात् तद्धितयस्येपि लोपः / मनुषी, मत्सी। तद्धिते६ मातृ-पितृभ्यां स्वमुः सस्य षः / पैतृष्वस्त्रीयः, मातृष्वस्त्रीयः। 7 ईदग्नेः सोम-चरुणयोः / 8 अग्न्यादेः सोमादीनां सस्य षः / अग्नीषोमीयम् / 9 अमरिद् वृद्धौ / आग्निमारुतम् / आग्निवारुणम् / 10 एतत्-किम्-इदम्-यत्-तद्भ्यः परिमाणे वतुः / यावान् / तावान् / एतावान् / इयान् / कियान् / 11 त्रे त्रयस् / त्रयोदशः / 12 षष उत्वं दत-दश-धामुत्तरपदादेश्च टुत्वम् / षोडश | पोढा /