________________ (17) उत्तराध्ययनाचनेकग्रन्थसम्पादकैः, 'आबू'प्रभृतिग्रन्थलेखकैः शान्त्या भावितात्मभावैः पूज्यमुनिरानैरिन्द्रियजयं तन्वानः श्रीजयन्तविजयमहाराजैर्वृत्तिद्वयस्य सिद्धान्तमुक्तानामकं सरलं सुन्दरमुपयुक्तं टिप्पनं व्यधायि / अस्मिन् टिप्पने मूलस्थप्रयोगाणां साधकानि कानिचित् सूत्राणि व्याकरणान्तरादानीय प्रयोगसिद्धिः साधिता, नवीनोदाहरणानि च बहूनि दत्त्वा मूलसूत्रभावो सुस्पष्टितस्तैः / सामुखस्यास्य ग्रन्थस्य संशोधनादौ साहाय्यं वितन्वन् संशोधनादिकलाकुशलः पण्डितलालचन्द्रोऽत्र धन्यवादमर्हति / मार्गोपदेशिकादिनवीनव्याकरणानां पठनादस्य श्रीसिद्धान्तरत्निकाव्याकरणस्य पढनेन समधिकं दृढतरं च ज्ञानं भवितुमहत्यतः संक्षेपरुचयः शुचयः च्छात्रा एतद् व्याकरणमधीयाऽऽप्स्यन्ति कार्यसाधकं ज्ञानम्, सफलयिष्यन्ति च मूलसूत्र-वृत्तिविधायकसम्पादक-प्रकाशकपरिश्रममश्रमेणेत्याशासानो विरमत्ययम् शिवपुर्याम् . वीरसं. 2456. / कार्तिकशुक्ला 5. / धर्मसंवत् 8. विशेषवे दिनां वशंवदःमुनिहिमांशुविजयोऽनेकान्ती.