________________ श्रीसिद्धान्तचन्द्रिकास्थानिटकारिकायाः श्लोकाः। अनिट् स्वरान्तो भवतीति दृश्यतामिमांस्तु सेटःप्रवदन्ति तद्विदः। अदन्तमृदन्तमृतां च वृनौ विडीडिवणेष्वथ शीङ्-श्रिबावपि // 1 // गणस्थमूदन्तमुतां च रु-स्नुवो क्षुवं तथोर्णोतिमथो यु-णु-क्ष्णवः / इति स्वरान्ता निपुणः समुच्चितास्ततो हसान्तानपि सन्निबोधत // 2 // शकिस्तु कान्तेष्वनिडेक इष्यते घसिश्च सान्तेषु वसिः प्रसारणी। रभिश्च भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो लभिरेव नेतरे // 3 // यमिर्षमान्तेष्वनिडेक इष्यते रमिर्दिवादावपि पठ्यते मनिः / नमिश्चतुर्थो हनिरेव पञ्चमो गमिस्तु षष्ठः प्रतिषेधवाचिनाम् // 4 // दिहिर्दुहिर्मेहतिरोहती वहिनहिस्तु षष्ठो दहतिस्तथा लिहिः / इमेनिटोऽष्टाविह मुक्तसंशया गणेषु हान्ताःप्रविभज्य कीर्तिताः॥५॥ दिशिं दृशिं दंशिमयो मृशि स्पृशि रिशि रुशिं क्रोशतिमष्टमं विशिम्। लिशिं च शान्ताननिटः पुराणगाः पठन्ति पाठेषु दशैव नेतरान् // 6 // रुधिः सराधियुधि-बन्धि-साधयः क्रुधि-क्षुधी शुध्यति-बुध्यती व्यधिः। इमे तु धान्ता दश चाऽनिटो मतास्ततः परं सिध्यतिरेव नेतरे // 7 //