________________ आमुखम् / - - - व्याकरणात् पदसिद्धिः पदसिद्धरर्थनिर्णयो भवति / अर्थात् तत्त्वज्ञानं तत्त्वज्ञानात् परं श्रेयः // 1 // हहो ! विद्याविलासिनो विपश्चिद्दर्यवर्याः ! आर्याः ! नैकशोऽनुभूतचरमिदं व्याकरणवाङ्मयविद्याविनोदवतां श्रीमतां भवतां विपश्चितां, प्रसिद्धप्रायं श्रुतपूर्व च प्रौढपुण्य प्राप्तप्रतिभाप्राग्भारप्रतिपन्नानां पण्डितप्रेष्ठानां यद् व्याकरणज्ञानं समस्तैर्मनुष्यैः प्रथमतः सम्यग्रीत्योपार्जनीयमिति / व्याकरणशब्दस्य व्युत्पत्तिस्तु प्रचण्डवैयाकरणतार्किकमतिमतां मान्यैर्ग्रन्थानां चतुश्चत्वारिंशदधिकचतुर्दशशतकृद्भिः श्रीहरिभद्राचार्यैरावश्यकवृत्तावेवमुक्ता "व्याक्रियन्ते लौकिक-सामयिकाः शब्दा. अनेनेति व्याकरण-शब्दशास्त्रम् " अनया व्युत्पत्त्या काव्यालङ्कार-तक-योग-ज्योतिः-प्रमुखशास्त्राणि नास्माद् व्याकरणज्ञानादृते सम्यक्तया पठितुं शक्यन्त इति स्फुटतरं प्रतीयते / व्याकरणं हि द्वारं सर्वशास्त्राणां संयमः सर्वसिद्धीनामिव; एतदेव मूलमशेषविद्यानां ब्रह्मचर्याश्रमोऽखिलाऽऽश्रमाणामिव; न चैतदस्माकं मनःकल्पितमतिशयोक्तिमिश्रितं वा वयं ब्रूमहे, किन्तु निःशेषयोगीशध्येयैर्निर्मलसकलकलाकलनैकपटुभिरत्रभवद्भिः सर्वज्ञैः सर्वदर्शिभिस्तीर्थङ्करैः " वयणविहत्तिए कुसलो " इत्यादिभिः ..