________________ (18) एतस्य दुःखं न भवद्भिरिष्टं न प्रत्यवायोऽपि कदाचनाऽपि / दुःखादिभेदत्रितयं न वक्तुं युक्तं ततो यौगधुरन्धरस्य // 9 // पुण्यकारुण्यपीयूषपूरेणाऽत्यन्तपूरितः। . प्रवर्तते जगत्सर्गे भर्ग इत्यपि भङ्गुरम् / / 10 // यत:क्षुद्रग्रामे निवासः कचिदपि.सदने रौद्रदारिद्रयमुद्रा जाया दुर्दर्शकाया कटुरटनपटुः पुत्रिकाणां सवित्री / दुःस्वामिप्रेष्यमावो भवति भवभृतामत्र येषां बतैतान् शम्भुर्दुःखैकदग्धान् सृजति यदि तदा स्यात्कृपा कीदृगस्य ? अथ धर्ममधर्ममङ्गभाजां - सचिवं कार्यविधावपेक्षमाणः। सुखमसुखमिहार्पयद् गिरीशस्त दवरमुपरि निषेधनादमुष्य // 12 // स्वभाव एवैष पिनाकपाणेः प्रवर्तते विश्वविौ यदेवम् / . खभाव एवैष रविर्जगन्ति प्रकाशयत्येष यदित्ययुक्तम् // 13 //