________________ // श्रीः॥ ॥भूमिका // इह खलु जगति सं कृतनाटकादिषु बहुषु स्थलेषु स्त्र्यादिपात्राणां प्राकृतैव भाषा दरीदृश्यते जैनेषु महत्तरागमेषु च सैवोपलभ्यते परञ्च तद्भाषाया इदानीन्तनकाले ज्ञानं सुष्ठुतरं जनेषु नैवोपलभ्यतेऽतस्ते तत्तद्ग्रन्थस्थिततत्त्वं यथार्थं नैव लभन्ते इत्यस्माद्धेतोस्तेषां . तत्तद्ग्रन्थेषु सुखप्रवेशनाय, असाधारणगुणगणमणिमण्डलमण्डितभूघनैरनन्यसदृशोपदेशशक्ति भिबोंधितकु मारपालावनिपतिभिर्मोक्षमार्गप्रदर्शनप्रदीपप्रतिमैः . समीहितार्थसंसिद्धिकल्पतरुकल्पैर्भवापारपारावारनिस्तारणतरीभिः परप्रवचनाऽनभिज्ञतापादनतोऽधिगतप्रामाण्यैरैहिकामुष्मिकाऽपायसमवायनिबन्धनतनुत्वविधानपटीयोभिर्मनोहारिविज्ञानदर्शनचारित्रपात्रैः सकलभुवनजनकुन्दसुन्दरशरदिन्दुसधर्मभिः प्रबलतरतप्ततपश्चित्रभानुदंदह्यमानदुरितसमवायैः सार्द्धत्रयकोटिश्लोकपरिमिततन्त्रसूत्रणसूत्रधारकल्पैः श्रीमद्धेमचन्द्राचार्यवर्यपादैविरचिताष्टमाध्यायतः समुद्धृत्य स्वल्पमतिनापि मयका निखिलार्हतप्रवचनपरमार्थविदां निजचरणारविन्दविन्यासपावनीकृतक्षोणीनां पुण्यद्रुपरिपल्लवैकतडित्वतां मुनिवराचाराचरणातिनिबद्धकटीनां व्यपगतदूषणपारमेश्वरीयशासनोन्नतिविधायिनां नास्तिकावनिरुहोन्मूलनकुञ्जराणां निजदेशनाहलीषासङ्कर्षणतो