________________ 246 प्राकृतशब्दरूपावलिः | रायाहिन्तो राएहिन्तो / रायासुन्तो राएसुन्तो. षष्ठी (रण्णो राइणो रायणो राइणं राईणं रायाणस्स रायस्स रायाणाणं रायाणं सप्तमी (राइम्मि राए रायाणे राईसुं रायाणेसुं राएसुं / रायम्मि रायाणम्मि संबोधनम् | हे राया हे रायाण हे राइणो हे रायाणो (हे रायाणी हे राय हे रायाणा हे राया हे रायो , . ॥राज्ञः // 8 / 3 / 49 // इत्यनेन राज्ञोऽन्त्यस्य आत्वं सौ // पुंस्यन आणो.राजवच्च / / 8 / 3 / 56 // इत्यनेनाणादेशो वा / पक्षे अतः से?ः / / 8 / 3 / 2 // इति प्रवर्त्तते तेन राया इति रूपं तस्य रूपाणि देववत् / / जस्-शस्-ङसि-ङसां णो // 8 / 3 / 50 // इत्यनेन राजन्शब्दात्परेषामेषां णो इत्यादेशो वा / कृते च णो आदेशे / / इर्जस्य णो-णा-डौ।।८।३।५२ // इत्यनेन राजन्शब्दसम्बन्धिनो जकारस्य स्थाने णो-णा-ङिषु परेषु इकारो वा / पक्षे / रायाणो अपि / इणममामा / / 8 / 3153 / / इत्यनेन राजनशब्दसम्बन्धिनो जकारस्य अमाम्भ्यां सहितस्य स्थाने इणम्-इत्यादेशो वा / / टोणा / / 8 3 / 51 // इत्यनेन ययाः स्थाने णा इत्यादेशो वा / / ईद्भिस्भ्यसाम्सुपि / / 8 / 3 / 54 // इत्यनेन राजनशब्दसम्बन्धिनो जकाररस्य भिसादिषु परेषु ईकारो वा / तेन भिस् प्रत्यये, राईहिं इति रूपम् / पञ्चमीबहुवचने तु / / हूस्वः संयोगे / / 8 / 1 / 84 // इत्यनेन हुस्वे कृते राइत्तो इति रूपं भवति / आजस्य य-ङसिङस्सु सणाणोष्वण् / / 8 / 3 / 55 // इत्यनेन राजन्शब्दे आज इत्यवयवस्य णा-णो-इत्यादेशापनेषु टा-ङसि-ङस्सु परेषु अण् वा भवति / तेन-रण्णा-राइणा-रण्णो राइणो इत्यादि सिद्धम् /