________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् स्वतेजोभिरुपबृंहणकारित्वात् / / 794 / / "ग्रहपुषः'' 795 इति / ग्रहान्-सोमप्रमुखान् पुष्णातीति स तथा // 795 / / "ग्रहेश:" 796 इति / ग्रहाणाम् ई-लक्ष्मी श्यति-खण्डयतीति सः, तदुदये तच्छोभानिवृत्तेः / ग्रहाः प्रवरा ईशा यस्मादिति वा / / 796 / / "ग्रहेश्वरः" 797 इति / ग्रहाणां मध्ये ईश्वर:-प्रधानः, सर्वोत्कृष्टत्वात् / / 797|| "ग्रहनाथ:" 798 इति / ग्रहै थ्यते-प्रार्थ्यत इति स तथा / / 798 // "ग्रह-नक्षत्रमण्डनः" 799 इति / ग्रहाश्च नक्षत्राणि च तानि मण्ड्यन्तेभूष्यन्तेऽनेनेति स तथा // 799 / / // इति पादसाहश्रीअकब्बरजल्लालदीनसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकब्बरप्रदत्त खुस्फहमा'ऽ पराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शेखश्रीअबुलफजलकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायामष्टमशतविवरणं समाप्तम् / / "क्रियाहेतुः" 801 इति / क्रिया:-कर्तव्यरूपाः, तासां हेतु:-कारणम्, वेदोक्तयाग-होमादिक्रियाप्रवर्तकत्वात् / / 801 // "क्रियावान्' 802 इति / क्रिया-अवधानम्, तद्वान्; जगद्रक्षणविषये सावधान इत्यर्थः / “क्रिया रूपापवेष्टयोः / आरम्भ-नि:कृतौ पूजा-ऽवधानवसु-कर्मसु / ' इति मेदिनिकारः // 802 / / "गरीयान्" 803 इति / अतिशयेन गुरु: गरीयान्, सर्वदेवेभ्यो विशिष्ट इत्यर्थः / / 803 / / "किरीटी" 804 इति / किरीटं-मुकुटम्, तदस्यास्तीति किरीटी / केयूरवान् मकरकुण्डलवान् किरीटी इत्याकारेण ध्येयरूपत्वात् / / 804 // ___126