________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् कमलाया आनन्दो यस्मादिति वा, विष्णुरूपेण तद्भोक्तृत्वात् / / 782 / / "गुणः" 783 इति / सकलगुणाश्रयत्वेन गुण-गुणिनोरभेदोपचारः। सत्त्वरजस्तमोरूपगुणत्रयात्मक इति वा // 783 // "गन्धवहः" 784 इति / गन्धवह:-वायु:, तद्वदिव सर्वत्राप्रतिबद्धत्वात् . // 784 // "कुण्डली' 785 इति / कुण्डलं-कुण्डलाकृतिः, प्रस्तावान्मण्डलं लक्ष्यते, तद्वान् / कुण्डलम्-आभरणम्, तदस्यास्तीति वा केयूरवान् . मकरकुण्डलवानिति ध्येयरूपत्वात् / कुण्डली-सर्पः, शेषरूपेण वसुधाधारकत्वात् / / 785 // 'गणपतिः" 786 इति / गणानां नन्द्यादीनां पति:-स्वामी // 786 / / "कञ्चुकी" 787 इति / कञ्चुकं-वर्म; तदस्यास्तीति स तथा; .. सन्देहविनाशार्थं सर्वदा कवचोपयुक्तत्वात् / / 787 / / "गुणवान्" 788 इति / गुणा:-शौर्यादयः, ते सन्त्यस्मिन्निति स तथा // 788 // "गणेशः" 789 इति / गण:-समूहः, अर्था देवानाम्, तस्य ईश:-स्वामी / गणानाम्-अर्थाद् दैत्यगणानाम् ई-लक्ष्मी श्यतीति वा / / 789 / / "गणेश्वरः" 790 इति / गण:-प्रथमः, अर्थाद् ब्रह्मा; तस्येश्वरस्तस्य तदुत्पाद्यत्वात् / 'गण: प्रथम-संख्ययोः // ' इत्यनेकार्थः / / 790 // 'गणनायकः" 791 इति / गण:-ज्योतिःशास्त्रव्यवहारः, तत्र नायक:प्रभुः समर्थ इति यावत्, तत्प्रणेतृत्वात् / / 791 / / "गुरुः" 792 इति / हिताऽहितोपदेशकत्वात् / / 792 / / "गृहदः" 793 इति / गृहं-स्थानं स्वर्गलक्षणं भक्तानां ददातीति सः // 793 / / "ग्रहपतिः" 794 इति / ग्रहाणां पति:-पालयिता, तेषां हीनतेजसां 125