________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "विशिष्टात्मा'' 711 इति / विशिष्टः-अधिकः, आत्मा-बुद्धिर्यस्य स तथा, सर्वविषयकाभ्रान्तिबुद्धिमत्त्वात् / / 711 // "विषादः" 712 इति / विषं-पानीयम् अत्तीति विषादः, ग्रीष्मर्ती जलशोषकत्वात् / 'विषं जले वृक्षभेदे भवेत् क्ष्वेडेऽपि न स्त्रियाम् // ' इति मेदिनिः / विषं-पानीयमादत्त इति वा // 712 / / "काकः" 713 इति / केन-ब्रह्मणा अक्यते-ज्ञायते इति सः, गत्यर्थानां ज्ञानार्थकत्वात् / केन-सुखेन अकति-गच्छतीति वा / क:-यमः, तस्य अकंदुखं यस्मादिति वा। 'क: सूर्य-मित्र-वाथग्नि-ब्रह्मा-ऽऽत्म-यम-केकिषु / प्रकाश-वक्त्रयोश्चापि, कं नीर-सुख-मूर्धसु / ' इति सुधाकलशः // 713 / / "कालः" 714 इति / कायति-क्षिपति सर्वभावानिति कालः, अहोरात्राद्युपाधिकजनकत्वात् / क:-ब्रह्मा, अ:-विष्णुः, आ-महादेवः, तेषां द्वन्द्वः; तान् लाति-अनुगृह्णातीति वा // 714 // “कालानलद्युति:" 715 इति / कालस्य-प्रलयकालस्य, योऽनल:-वह्निः, तद्वद् द्युति:-दीप्तिर्यस्य स तथा। काले-अर्थात् सायंकाले वह्नौ द्युतिर्यस्येति वा / 'श्रीसूर्यः स्वतेजो वह्रौ निधायाऽस्तं याति // ' इति श्रुतेः // 715 / / : "कालहा" 716 इति / काल:-असमये मृत्युः, तं हन्तीति स तथा, अपमृत्युनाशक इत्यर्थः // 716 // “कालचक्रः" 717 इति / काल एव चक्रं-चिहं ज्ञापकं यस्य स तथा, कालानुमेय इत्यर्थः / 'चक्र: कोके पुमांश्चिह्ने, व्रजे सैन्य-रथाङ्गयोः / / ' इति मेदिनिः / / 717|| "कालचक्रप्रवर्तकः"७१८ इति / काला-ऽपकालज्ञानाय यच्चक्रंज्योतिश्चक्रं तस्य प्रवर्तकः, स्वकान्तिप्रदानपूर्वकं तेषां प्रवर्तकत्वात् / / 718 / / 118