________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् करमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकबरप्रदत्त खुस्फहमा'ऽ पराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शेखश्रीअबुलफजलकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां सप्तमशतविवरणं समाप्तम् / / “विशोकः" 701 इति / विगत: शोक:-मनोऽस्वास्थ्यं यस्मात् सः, . सर्वदानन्दमयत्वात् / / 701 // . “विश्वकर्मा" 702 इति / विश्वमेवं कर्म यस्य स तथा / / 702 / / "विश्वम्भरः" 703 इति / विश्वं बिभर्ति-पोषयतीति विश्वम्भरः // 703 / / "विश्वनिलयः" 704 इति / विश्वमेव निलय:-निवासस्थानं यस्य स तथा। विश्वस्य निलयः-आधारः इति वा, परब्रह्मणो जगदाधारत्वात् // 704 // “विश्वरूपी" 705 इति / विश्वमेव रूपं विद्यते यस्य स तथा, तत्कर्तृत्वेन प्रतीयमानत्वात् / / 705 // “विश्वतापनः" 706 इति / विश्वं तापयतीति स तथा, सर्वेषां तप्तिजनकत्वात् / / 706 // “विश्वतोमुखः" 707 इति / विश्वत:-सर्वत: मुखम्-आभिमुख्यं यस्य स तथा / यत्र कुत्रचिदप्युपास्यमानः सन्मुख एव भवतीत्यर्थः / / 707 / / “विशेषविद्" 708 इति / विशेषा:-प्रतिव्यक्तिनियता असाधारणधर्माः, तान् वेत्तीति सः // 708 // "विष्णुः" 709 इति / व्याप्नोति विश्वमिति विष्णु:, विषेर्व्याप्तिविधायिन: ष्णुप्रत्ययान्तस्य रूपम् // 709 / / “विशिष्टः" 710 इति / स्वारसिकवेदप्रामाण्याभ्युपगन्तारः शिष्टाः, तेषां वेदोपदेशकत्वादयमेव विशिष्टः // 710 // 117