________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "जगत्साक्षी' 563 इति / जगतां साक्षीव साक्षी, अन्तर्यामितया सर्वेषां समीपवर्तित्वात् / जगत:-लोकस्य सा-लक्ष्मीः , तस्या अक्ष:-ज्ञानं विद्यते यस्येति वा // 563 // “जगत्प्रियः" 564 इति / जगत् प्रीणातीति सः / 'पृ पालन-पूरणयोः' इत्यस्य रूपम् / जगत्पालकत्वात् समीहितार्थपूरकत्वाद् वा // 564 / "जगत्पति:" 565 इति / जगद्रूपश्चासौ पतिश्चेति कर्मधारयः, तद्व्यतिरेकेण वस्त्वन्तराभावात् / / 565 / / "जगत्पिता" 566 इति / जगतां पिता-जनयिता, आहारसंयोजनादिना तत्पोषकत्वात् / / 566 // “यमः" 567 इति / यमयतीति यमः कालस्वरूपत्वात् / नियम इति वा, तदुद्देशेन क्रियमाणत्वात् / / 567 / / "जनानन्दः" 568 इति / जनानां-पामराणामप्यानन्दो यस्मात् स तथा, तदुदयेनैव तेषां स्व-स्वकर्मणि प्रवृत्तेः / ज:-तेजः, नं-ज्ञानम्, ताभ्यामानन्दो यस्मिन्निति वा / / 568|| "जनार्दन" 569+1 इति / जनानर्थाद् दैत्यादीनर्दयति-हिनस्तीति सः। जनैः समीहितमद्यते-याच्यत इति वा // 569+1|| "चण्डकरः" 569 इति / चण्डा:-तीक्ष्णाः , करा:-किरणा यस्येति सः। चण्डं-साहसिकं भक्तं करोतीति वा / चण्डानां-दुष्टानां कर:-दण्डो यस्मादिति वा / चण्डा एव चण्डकाः, तेजस्विनः; अर्थाद् अग्निप्रभृतयः, तेभ्योऽपि र:तीक्ष्ण इति वा // 569 // "जनेश्वरः" 570 इति / जनानां-लोकानामीश्वरो जनेश्वरः / जना:-पामरा अपि ईश्वरा यस्मादिति वा, यत्सपर्यावशत: प्राकृतजना अपि ईश्वरतां भजन्तीत्यर्थः / 'जनो लोके महल्लोकात्, परलोके च पामरः // ' इति मेदिनिः // 571 // 105