________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् श्वभ्रमेव च // इति श्रुतेः / जीवैः स्वाभिलषितं नाथ्यते-याच्यत इति वा // 542 // “जीमूतः" 543 इति / जीवनस्य-जलस्य मूतं-पुटबन्धः, पृषोदरादित्वानिपातः, वृष्टावुपादानकारणीभूतत्वात् / भक्तानां धृतिकर इति वा। 'जीमूतोऽद्रौ धृतिकरः // ' इति मेदिनिः / / 543 / / "जयनप्रियः" 544 इति / जयं नयन्ति-प्रापयन्तीति जयनाः, सुभटाः / तेषां प्रिय:-वल्लभ इत्यर्थः / 'यजनप्रियः' इति पाठे यजनं-घृतादीनां वह्नौ निक्षेपः, तदेव प्रियं यस्य सः, सर्वदेवात्मकत्वेन यज्ञांशभोक्तृत्वात् / / 544 / / "जेता" 545 इति / जयतीति जेता, सर्वदैत्योपसंहारकर्तृत्वात् // 545 // "युगं" 546 इति / वत्सरपञ्चात्मकं युगम्, सूर्यपरिस्पन्दजनितत्वेन तस्मिंस्तदुपचारः / 'युगं भवेद् वत्सरपञ्चकेन / / ' इति श्रुतेः / / 546 / / "युगादिकृत्" 547 इति / युगानामादि करोतीति युगादिकृत, तेषां तज्जनितत्वात् // 547 // "युगावर्तः" 548 इति / युगानि कृतादीनि आवर्तयतीति सः, कल्पान्तानन्तरं पुनस्तत्करणात् // 548 // . “जगदाधारः" 549 इति / जगतामाधार:-अधिकरणम्, प्रलयादौ जगतस्तत्रावस्थानात् // 549 // "जगदादिजः" 550 इति / जगत आदि जनयतीति स तथा, प्रतिकल्पं नवीनसृष्टिकर्तृत्वात् / जगत आदिर्यस्मात् स अनाद्यनन्तः कश्चित् पुरुषविशेषस्तस्माज्जायत इति वा तदंशीभूतत्वात् / / 550 // “जगदानन्दः" 551 इति / जगतामानन्दो यस्मात् स तथा // 551|| "जगद्दीप:" 552 इति / जगति-लोके दीप इव दीपः, अज्ञानान्धतमसाक्रान्तजगत्प्रकाशकत्वात् / / 552 // .. 103