________________ श्रीसूर्यसहस्रनामसङ्गहत्रयम् "परमः" 501 इति / परम:-उत्कृष्टः, अनन्याधीनत्वात् केवलचिदानन्दमयस्वरूपत्वाद् वा / परा-उत्कृष्टा मा-माया मा-शक्तिर्ज्ञानं वा यस्येति वा / यदुक्तमन्यत्र 'उत्कृष्टतां व्यनक्तीह, परशब्दः समासगः। ज्ञान-श्री-शक्ति-हिंसार्थवाचि मा ध्वनिना समम् / / ' इति / परेषां जनानां मं-ज्ञानं यस्मादिति वा // 501 // "परमोदारः" 502 इति / परमश्वासावुदारश्च परमोदारः, सर्वेषां समीहितार्थसार्थसम्पादकत्वात् / परेषां मा-लक्ष्मीः , उ:-दीप्तिः, ते दारयतीति वा / 'उ विषादेऽनुकम्पायां दीप्त्यां पुनरनव्ययम् / / ' इति मेदिनीकारः / परमा:-योगिनः, तैरुदीर्यते-गम्यते इति वा // 502 / / "परमेष्ठी" 503 इति / परमे-प्रकृष्टे, स्वे-महिम्नि स्थातुं शीलमस्येति स तथा // 503 // "पुरन्दरः" 504 इति / सुराणां शत्रुभृतं पुरं दारयतीति यः स तथा / पुरं द्यतीति पुरन्दरः, इन्द्रः / तस्य र:-रक्षणं यस्मादिति वा // 504 / / "प्रणतार्तिहा" 505 इति / प्रणतानां-भक्तानां अति-पीडां हन्तीति स तथा / प्रकृष्टं णं-ज्ञानं येषां तें प्रणाः, तेषां ता:-श्रियः, तासाम् अतिः-पीडा विनश्वरत्वलक्षणा, तां हन्तीति वा / / 505 / / "प्रणतार्तिहरः" 506 इति। प्रकर्षेण नता: प्रणताः, विनयवादिनः / तेषामति:-कामजनिता चित्तविप्लुतिः, तस्यां हर इव हरः / प्रणतानां-भक्तानां राज्ञां अर्ती-धनुष्कोटौ स्थित्वा हरः, अर्थात् सर्वशत्रुविनाशक इति वा / 'अर्तिः पीडा-धनु:कोट्योः / / ' इत्यमरः // 506 // "परन्तप:" 507 इति / परम्-अत्यर्थं तपतीति सः / परं-शत्रुवर्गमिति वा, ग्रीष्मौ सर्वेषामधिकतापकारित्वात् / / 507|| 98