________________ // 287 // // 288 // // 289 // // 290 // // 291 // // 292 // मयाऽन्यदा बलीवर्दा, गृहीता वाहनेच्छया / मृतास्तिलकरोगेण, सर्वे ते मदभाग्यतः . खरसार्थेन वाणिज्ये; मयकाऽथ चिकीर्षिते / ससार्थो मुषितश्चौरैर्जातोऽहं कर्मकृत् ततः वृत्तिस्तथाऽपि नो लब्धा, भूत्वाऽन्यस्याथ सेवकः / गतोऽब्धौ पोतमारुह्य, भग्नः सोऽपि मदंहसा उत्तीर्य फलकेनाब्धि, द्वीपं प्राप्याथ रोधनम् / प्रवृत्तः खनितुं बाढं, धूलिः प्राप्ता परं करे अथान्यत्र नगे. गत्वा, धातुवादः कृतो मया / मृद्भिर्मूलैश्च पाषाणैः, स्थितः क्षारः परं करे कृता ततो द्यूतलीला, तत्र द्यूतकरैर्जितः / ततो लातुं विभावाँ, प्रविष्टो रसकूपिकाम् सिंहेन त्रासितस्तत्र, कथञ्चिन्न तु मारितः / विना पुण्यमभूद् व्यर्थमित्थं कर्माखिलं मम लब्धा भिक्षाऽपि न क्वापि, बुभुक्षाक्षामकुक्षिणा / पादप्रसारिकां कृत्वा, मौनं धृत्वा ततः स्थितः सागरः प्रेरयामास, ततो मां स्फोरयोद्यमम् / अविषादः श्रियो मूलं, पुनः कुरु धनार्जनम् इत्याहितकुधीस्तेन, पातकेषु प्रवर्तितः / कृतानि तानि पापानि, यानि यान्यादिदेश सः धमगन्धोऽपि न प्राप्तः, परं पुण्योदयं, विना / न गतः श्वसुरस्यापि, गृहे मिथ्याभिमानतः तदाऽपि प्रेरयन्नेव, मैथुनो यौवनान्वितः / मां तिष्ठति तदिष्टं तु, नाप्यते सुकृतं विना // 293 // // 294 // // 295 // // 296 // // 297 // // 298 //