________________ // 203 // // 204 // // 205 // // 206 // // 207 // // 208 // दर्शितो मन्मथादीनां, तेन चित्रपटस्ततः / . तैरुक्तं राजहंस्येषा, गत्वा संधीर्यतां द्रुतम् / सर्वेऽपि राजसदने, ततः प्रमुदिता गताः / मयूरमञ्जरी नीलकण्ठश्च हरये ददौ ततः शुभेऽह्नि संजातो, विवाहस्य महोत्सवः / पाणौ गृहीत्वा तां प्राप्तो, हरिहर्षं रमामिव अथ सान्तःपुरं सर्वं, राजलोकाः सबान्धवाः / प्रजाश्च रागं विपुलं, गुणपूर्णे हरौ दधुः / इतश्च स हरि रिपुण्यवान् प्रेमनिर्भरः / / यन्त्रितो मम पुण्येन, मद्वियोगं न वाञ्छति प्राप्ता मया तत्प्रसादाद, विलासा देवदुर्लभाः। यशश्च चन्द्रविमलं, सज्जनस्पृहणीयता' जनिताः कुविकल्पौघाः, सागरेण तथाऽपि मे / यन्ममायं हरेः सङ्गो, हेतुरर्थार्जनक्षतेः रत्नौघमिह लास्यामि, निर्विघ्नमिति चिन्तितम् / अत्रापि मित्ररूपो मे, विघ्नोऽयं समुपस्थितः सर्वथा राजपुत्रोऽयं, त्यक्तुं शक्यश्च नाधुना / रुष्टो ह्यपहरेदेष, सर्वस्वमपि मामकम् तद् रत्नोपार्जनं कुर्वे, हरेरपि च रञ्जनम् / अत्यासङ्गस्तु मित्रेऽस्मिन्, मम स्वार्थं विनाशयेत् कृतं मया यथा ध्यातं, रत्नौघो मीलितस्ततः / क्वचित् पश्यामि रत्नानि गतो मूर्छा पुनः पुनः क्वचित् स्पृशामि हस्तेन, मुहुरुच्छालयामि च / क्वचिद् वक्षःस्थले दत्त्वा, हर्षमग्नो भवामि च // 209 // // 210 // // 211 // // 212 // // 213 / / // 214 // 82