________________ // 93 // अस्थापयत् समालिङ्ग्य, गाढं मामर्धविष्टरे। जगौ चोक्तोऽम्बया तातमित्रं मे हरिशेखरः // 88 // त्वं च तस्य सुतस्तेन, भ्रांताऽसि मम सर्वथा / मयोक्तं यादृशस्तातो, भृत्यः केसरिभूपतेः .. // 89 // तादृशस्तेऽहमप्यस्मि, तद् भृत्ये कोऽयमादरः / ततः सोऽकारयद् गाढं, तुष्टो मिंत्रागमोत्सवम् // 90 // ततो हरिकुमारेण, सह लीलां वितन्वतः / दिनानि मे सुखं यान्ति, संप्राप्तोऽथ मधूत्सवः // 91 // ततो हरिकुमारोऽसौ, मित्रमण्डलराजितः। मदन्वितो ययौ द्रष्टुं, वने मधुकृतश्रियम् // 92 // सहकारतले तत्र, स्थितः कोकिलकूजितैः / प्रपञ्चितस्मरयशःपटहध्वनिविभ्रमे , तावत् तत्रागता काचिद्, व्रतिनी रौद्ररूपभृत् / वृद्धा सा चित्रालिखितां, कन्यां तस्य करे ददौ // 94 // कुमारभावं पश्यन्ती, सा ततः स्तिमिता स्थिता / सविकारं तमाक्षिप्तमालोक्य च विनिर्गता // 95 // कुमारस्तां मुहुः पश्यन्, दृष्टो मित्रैः पराहतः / / दीर्घनिःश्वासहुङ्काराव्यक्तवाग्मूर्द्धकम्पनैः टटलागत्यक्तवागमार्टकम्पनैः // 96 // अभूत् क्षणं स मन्दाक्षः क्षणं विस्फारितेक्षणः / क्षणं स्मेरः क्षणं लीनः, क्षणक्षणविलक्षणः // 97 // सस्मितं मन्मथः प्रोचे, ततो नानारसाकुलम् / किं नरीनृत्यते चित्ते, कुमार ! स्फारविभ्रमैः / // 98 // विदग्धः सोऽवदत् तस्मै, निहनुवानो निजाशयम् / . हष्याम्यस्मादहमितश्चित्रकृत्करकौशलात् . // 99 //