________________ // 28 // // 29 // // 30 // // 31 // // 32 // // 33 // प्ररोहो भूमिसंप्राप्तस्तच्छाखाया विनिर्गतः / दृष्टो मया ततश्चायं, खन्यवादो हृदि स्मृतः / नास्त्येव क्षीरवृक्षस्य, प्ररोहो धनवर्जितः / स्तोकं वा भूरि वा तत्र, ध्रुवं बिल्वपलाशयोः प्ररोहे भूरि तत् स्थूले, तनुके स्तोकमुच्यते / रात्रौ ज्वलति तद् भूरि, सोष्मणि स्वल्पमीरितम् विद्धे तत्र भवेद् रक्तं, यदि रत्नानि लक्षयेत् / अथ क्षीरं सितं रूप्यं, पीतं चेत् कनकं भवेत् प्ररोहः स्यादुपर्युच्चैर्यन्मात्रोऽधोऽपि तावति / प्रदेशे निहितं नूनं, विद्यते तन्निधानकम् उपरिष्टात् तनुश्चेत् स्यादधस्तात् पृथुलो यदि। . प्ररोहोऽसौ निधि प्राप्तो, विपरीतस्तु सोऽन्यथा अयं पुनः पलाशस्य, प्ररोहो दृश्यते तनुः / . स्तोकं द्रव्यमिहास्तीति, तच्चित्ते चिन्तितं मया नखविद्धात् ततः क्षीरं, पीतवर्णं विनिर्गतम् / ततो मया सुवर्णेन, भाव्यमत्रेति भावितम् तद्देशो विधिना खातः, सागरप्रेरणादथ / दृष्टं भृतं च दीनारैस्तत्रैकं ताम्रभाजनम् / सहस्रमात्रं तद् वित्तं, प्राप्तं स्फीतश्च सागरः / पुण्योदयगुणो मोहान्मया तत्रैष रोपितः भाण्डमूल्यमभूत् तन्मे, प्रविष्टो नगरे ततः / बकुलश्रेष्ठिना दृष्टो, हट्टमार्गे वृषोज्ज्वलः कृतं संभाषणं तेन, वितताः स्नेहतन्तवः / नीतश्च भवने स्वीये, भोजितश्चारुभोजनम् // 34 // // 35 // // 36 // // 37 // // 38 // // 39 //