________________ सर्वेऽपि तादृशा जीवाः, संसारोदरवर्तिनः। स्वस्वरूपं न जानन्ति, तथाऽपि हतबुद्धयः // 372 // अतस्तत्प्रतिबोधाय, ताहग्रूपं मया कृतम् / मुनिवेषधरं यच्च, कृतं तत्कारणं शृणु . : // 373 // मुनयो धुतपापा ये, ते कृष्णास्तृट्क्षुधार्दिताः / / कुष्ठिनोऽपि बहिर्जेयास्तत्त्वतो भूप ! सुन्दराः / // 374 // ये तु सद्धर्मविमुखा, गृहस्था भोगगृध्नवः / सुखिनोऽपि हि ते ज्ञेया, दुःखिनो रोगपीडिताः // 375 // गृहिणां कृष्णवर्णाद्या, दोषाः सन्ति यथाऽखिलाः / साधूनां च सन्त्येते, तथा ते कीर्तयाम्यहम् // 376 // उत्तप्तस्वर्णवर्णोऽपि, बहिर्बुद्धिधनैर्जनः / पातकध्वान्तलिप्तोऽन्तः, कृष्णवर्णो निगद्यते // 377 // बहिरञ्जनवर्णोऽपि स्वान्ते स्फटिकनिर्मलः / न कृष्णः प्रोच्यते प्राौिर एवाभिधीयते // 378 // साधुस्तत् कृष्णवर्णोऽपि, गौराङ्गो धर्मबद्धधीः / गृहस्थः स्वर्णवर्णोऽपि, कृष्णः पापपरायणः // 379 // इममर्थमभिप्रेत्य, मयोक्तं शत्रुशातन ! / मूढा ! न कृष्णवर्णोऽहं, यूयमेव तथाविधाः // 380 // सा बुभुक्षा न विषयैस्तृप्तिर्याऽधिगतैरपि / तया बुभुक्षिताः सर्वे, भवचक्रनिवासिनः // 381 // ते हि यद्यपि दृश्यन्ते, तृप्तिभाजो भृतोदराः / ज्ञेयास्तथाऽपि तुच्छाशा, बुभुक्षाक्षामकुक्षयः // 382 // साधवस्तु सदा तृप्ताः, प्रशमोद्गारमोदिताः / / रिक्तोदरा अपि ज्ञेया, मुक्ता भावबुभुक्षया . // 383 // 32