________________ प्रशान्तदृष्टिं स्थिरसन्निवेशाम्, विकारहीनामतिसुप्रसन्नाम् / न नाथ ! मुद्रामपि तीथिकास्ते-ऽनुकुर्वते क्वान्यगुणप्रवृत्तिः।। 252 // / जगद्धृतं येन दुराशयेन, सोऽपि त्वयाऽहन्यत मोहमल्लः / . भानुः समुद्यन् प्रबलप्रतापः, सर्वंकषं किं न तमः प्रमार्टि // 253 // त्वदाननेन्दुं जिनराज ! दृष्ट्वा मनो मदीयं द्रवतीन्दुकान्तम् / . शमामृतापूर्णगुणालवालैः, प्रवर्धतां त्वत्करुणालतान्तः // 254 // . निहत्य मिथ्यात्वपिशाचमीश!, तव प्रसादात् पटुतां गतोऽस्मि / तथाऽपि तृष्णा छलयत्यहो मां, स्वामिन् ! पिशाची विनिवारयैनाम्५५ ममैकतस्त्वद्वचनानुवृत्ति-स्तथाऽन्यतः संसृतिपाशबन्धः / बद्धस्य मार्गे गमनं तदेत-न शोभते त्याजय सर्वबन्धम् // 256 // त्वं निघृणः कर्म चमूविनाशे, न मोहबन्धुः परवत् कदाऽपि / त्वद्भक्तमच्चित्तविनाशिभूरि-भावारिघाते किमुपेक्षसे तत् // 257 // सिक्तोऽस्मि सद्दर्शनतस्त्वयाऽहम्, द्रुमो विवेकैरथ पुष्पितोऽस्मि / गणाश्रयैः पल्लवितोऽस्मि रागैः, कर्मक्षयात् तत् फलिनं कुरुष्व॥ 258 // नरेन्द्रदेवेन्द्रविभूतयो या-स्तवांहिभक्तेरनुषङ्गलभ्याः। न तासु लुब्धं मम चित्तमुच्चै-मुख्ये फले धावति मोक्ष एव।। 259 // कथं समर्थोऽपि कषायलुप्तं, मां वीक्ष्य चित्ते करुणां न धत्से / अमी कषायाः स्फुटपौरुषस्य, हुङ्कारमात्रेण तव म्रियन्ते॥ 260 // किं कृत्रिमोऽस्ति त्वयि मेऽनुरागो, नाहं कृपायास्तव भाजनं यत् / निरीक्षितोऽहंकृपयात्वयातु, पिबामिकुम्भोद्भववद्भवाब्धिम्॥२६१।। कायः प्रणामैकरतस्तवायं, स्तोत्री गुणानां तव भारती मे / त्वय्येव लीनं हृदयं सदेति, स्वकिङ्करे किं कुरुषे न तोषम्।। 262 / / माता पिता त्वं मम नायकश्चा-नौपाधिकस्त्वं जिन ! बान्धवो मे / फलं ततो भक्त्युचितं प्रदेहि, किमालजालैर्मम विप्रलापैः॥ 263 // 22