________________ // 2 // प्रशस्तिः / साहिश्रीमदकब्बरक्षितिपति(ते)श्चित्ते निजैर्यो गुणैरादायाम्बु दयामयं जिनमताद् धर्मद्रुमं सिक्तवान् / नम्रानेकनरेन्द्रमौलिविलसन्माणिक्यकान्तिच्छटानीरौघस्नपितक्रमोऽयमजनि श्रीहीरसूरीश्वरः // 1 // सूरीश्रीविजयादिसेनसुगुरुस्तत्पट्टरत्नं बभौ, शाहेः पर्षदि यो जिगाय सुनयः प्रोन्मादिनो वादिनः / सूरिः श्रीविजयादिदेवसुगुरुस्तत्पट्टभास्वानभूद्, भूयांस्तत्सुकृतानुमोदनकृते ग्रन्थोऽयमुज्जृम्भताम् कल्याणं नाम येषां वपुरपि विलसच्चारुकल्याणवर्णम्, धैर्यं कल्याणशैलाधिकमपि करुणादृष्टिकल्याणवृष्टिः / .. कल्याणीभक्तयस्ते सुगुरुषु नितरां हीरसूरीश्वरेषु, श्रीमत्कल्याणराजद्विजयगुरुवरा वाचकेन्द्रा बभूवुः जिह्वाग्रजाग्रदुद्योतिज्योतिर्व्याकरणागमाः / श्रीलाभविजयाह्वानास्तच्छिष्या सुधियोऽभवन् सौभाग्यभाग्यनिधयः सुधियो बभूवुः, सज्जीतजीतविजयाश्च तदीयशिष्याः / श्रीमन्नयादिविजया इह तत्सतीर्थ्यास्तीर्थोदयावहपवित्रचरित्रभाजः तदीयपदसेवकः स्ववशभावमान्विक्षिकीनयं खलु निनाय यो दृढतरैस्तदीयैर्गुणैः / स पद्मविजयाह्वयः प्रियसहोदरः प्रीतिमान्, यशोविजयवाचकः किमपि तत्त्वमेतज्जगौ प्राभृतं विजयदेवगुरूणां ग्रन्थ एष सुविचारविशेषः / एतदुत्थसुकृतं निभृतं तैर्यत्समीहितमनागतमेव // 7 // / // 4 // // 6 // 280