________________ // 804 // प्राग्भवेऽभूवमस्याहं, मित्रं नाम्ना कुलन्धरः / तदा भवप्रपञ्चोऽस्य, श्रुतो निर्मलसूरितः स एवायमनेनेत्थमाख्यात इति भावनात् / विरक्तोऽहं भवावासादनुजानीत तेन माम् // 805 // येन गृह्यम्यहं दीक्षामनेनैव सहाद्भुताम् / तदाकर्ण्य प्ररुदिता, कमलिन्युग्रदुःखतः // 806 // प्राह श्रीगर्भराजोऽथ, मा रोदीर्देव्ययं यतः / शुद्धधर्मकरो जातः, स्वप्नस्यैवानुसारतः // 807 // तन्नास्य धारणं युक्तमनुव्रजनमावयोः / घटते किन्तु निर्मिथ्यस्नेहसूचनचञ्चुरम् // 808 // बालश्चेत् कुरुते धर्ममेष भोगोर्मिसंमुखः / . स्थातुं न युक्तं तद्भोगोत्तीर्णयोरावयोर्भवे // 809 // ततः कमलिनी प्राह, प्रतिभातमिदं मम / . चारूदितं त्वया राजन् !, युक्तमेतत् किलावयोः / ततोऽनुज्ञाय पुत्रं तं, तौ देवीक्षितिवासवौ / गृहीतुमुद्यतौ दीक्षामभूतां दृढनिश्चयौ . . // 811 // अथ भूपसुता सा तैरनुसुन्दरभाषितैः / द्राविता प्रेक्ष्य चोभ्रान्ता, पुण्डरिकादिचेष्टितम् // 812 / प्रत्यब्रवीन्महाभद्रां, साऽनुतापा कृताञ्जलिः / किं कृतं प्राग् मया पापं, येन जाताऽहमीदृशी। // 813 धन्यो राजसुतोऽयं यो, बुद्धो भवकथामिमाम् / श्रुत्वा पापा न बुद्ध्येहं, बोद्धकामाऽपि किं ततः // 814 // त्रयाणामपि धन्यानां, प्रत्ययो ज्ञानपूर्वकः / एषां स्फुटः प्रादुरभूदनुसुन्दरवाक्यतः // 815 // 253