________________ दिव्यः क्षान्त्यादिकन्यानां, विवाहो यश्च कीर्तितः / / तत्राष्टौ मातरो याश्च, व्युत्पत्त्यर्थं निवेदिताः // 792 // तदेतदखिलं श्रुत्वा, यदि बाले ! न बुद्ध्यसे / तदा पाषाणभूतायास्तव किं कथ्यतेऽधिकम् / // 793 // किं न स्मरसि तन्मुग्धे ! निर्मलाचार्यसन्निधौ / मत्प्रेमपारतन्त्र्याद् यत्, प्रतिपन्नाऽसि संयमम् // 794 // कृत्वा ततस्तपः स्वर्गे, प्राप्ताऽसि सुखसन्ततिम् / इहागता परिभ्रम्य, भूयोऽपि भवचक्रके - / 795 // अपार्द्धपुद्गलावर्त, सम्यग्दर्शनदूषणात् / . जिनाद्याशातनातश्च, यद् भ्रान्तोऽहं भवोदधौ // 796 // चतुर्दशापि पूर्वाणि, विज्ञाय मदगौरवात् / यच्च भूयो निगोदादौ, गत्वाऽहं दुःखितोऽभवम् // 797 // तदप्याकर्ण्य चित्तं ते, नाभूत् किं रसपिच्छलम् / यत्संवेगाङ्कुरोद्भेद, इहाद्यापि न दृश्यते // 798 // सूक्ष्मबोधेन वाक्यार्थं, मामकीनमवेहि तत् / बालिके ! मा विलम्बस्व, श्रमं मे सफलीकुरु // 799 // तत्रानुसुन्दरनृपे, वदत्येवं स मूर्च्छितः / पौण्डरीकः पपातोव्या, जाता पर्षत् ससंभ्रमा // 800 // श्रीगर्भो व्याकुलीभूतः, शोकं कमलिनी ययौ / आश्वासितोऽनिलैः सोऽथ, प्रबुद्धः पितरं जगौ // 801 // अनुसुन्दरराजोऽयं, स्वस्य पूर्वं त्वदागमात् / वैकियं तास्करं रूपं, बिभ्रत् प्रोचे भवभ्रमम् // 802 // अनाख्येयस्ततोऽभून्मे, बुद्ध्यमानस्य सम्मदः / चैतन्यनिःसहस्याथ, जाता जातिस्मृतिः स्फुट // 803 // ર૫ર