________________ यदयं भव्यपुरुषः सुमतिश्चेति युज्यते / .. श्रेयोयोगोऽत्र तच्छ्रुत्वा, दधुः सर्वे जना मुदम् // 636 // दध्यौ सुललिता त्वन्तर्जनकाम्बादिगोचरः / कोऽयं भेदः कथं चैष, वेत्ति भाविगुणोच्चयम् . // 637 // इति शङ्कापरा गत्वा, वसति सा प्रवर्तिनीम् / पप्रच्छ साऽतिमुग्धां तां, ज्ञात्वा युक्त्याऽर्थमाह तम् // 638 // अस्याः सदागमप्रीति, तनोमीति विचिन्त्य च / सदागमस्यावितथं, कथयामास गौरवम् // 639 // उक्तार्थप्रत्ययार्थं च, तत्संस्तवमकारयत् / दिनानि यान्त्यथ तयोर्भगवत्पादसेवया // 640 // लङ्घिते मासकल्पेऽथ, सूरिराह प्रवर्तिनीम् / क्षीणजङ्घाबलाऽसि त्वं, तत् तिष्ठात्रैव धीमति ! // 641 // वयं पुनः समेष्यामः, प्रतिजागरणाय ते / क्षेत्रे साध्वीश्रिते वस्तुं, कारणं हीदमेव नः // 642 // आबाल्यात् स्नेहलो बाढं, कर्तव्यश्च नृपाङ्गजः / त्वया यद् वर्धमानोऽसौ, मम शिष्यो भविष्यति // 643 // महाभद्रा गुरुवचस्तत् तथा प्रत्यपद्यत / . विहृता गुरवः प्राप्तः पुण्डरीकः कुमारताम् // 644 // बभूवाथ महाभद्रास्नेहवश्यो गुणैकभूः / आचार्याः पुनरायातास्तत्पार्श्वे तं निनाय सा // 645 // भाविभद्रतया हृष्टः, स तन्मूर्तिनिरीक्षणात् / रञ्जितस्तद्गुणतातैः, प्रीतस्तद्वचनामृतैः // 646 // संपप्रच्छे महाभद्रां, किं नामायं महाशयः / साऽऽह भद्र ! भवद्भूतभाविज्ञोऽयं सदागमः // 647 // .... . 236.