________________ // 168 // // 169 // // 170 // // 171 // // 172 / / // 173 // ध्वनिना प्रत्यभिज्ञाय, तं ध्यातं विस्मयान्मया / इदानीं कथमीक्षः, स एवायं तपोनिधिः अथवाऽत्र किमांश्चर्य, चन्दनेनोदितं हि मे। भवन्ति लब्धिपात्राणि, कामरूपा मुनीश्वराः जायन्ते तेऽणुवत्सूक्ष्मा, गुरवोऽपि च शैलवत् / पूरयेयुः स्वदेहस्य, विस्तारेणाखिलं जगत् / तूलवल्लघवोऽपि स्युः, कुर्युर्देवांश्च किङ्करान् / घयद् घटशतं कुर्युर्मज्जेयुश्च शिलातले आकर्णयन्ति सर्वाङ्गैः, स्पर्शाद् रोगान् हरन्ति च / वायुवद् गगने यान्ति, क्वापि नैव स्खलन्ति ते अतोऽयं यः कुरूपः प्राग, दृष्टः सम्प्रति चेक्ष्यते / सुन्दराङ्गस्ततः पात्रं, लब्धीनां परिभाव्यते मया प्रहृष्टचित्तेन, वन्दितो भगवांस्ततः / . अन्ये च मुनयोऽहं तैर्दत्ताशीश्च पुरःस्थितः पीत्वा तद्वाक्यपीयूषं, भावितस्तद्गुणैभृशम् / पृष्टं चैकस्य साधोः कः, कुत्रत्यश्चैष सूरिराट् तेनोक्तं गुरुरस्माकमयं सूरिर्बुधाभिधः / पुत्रः शुभविपाकस्य, धरातलपुरेशितुः साधुतानन्दनो राज्यं, त्यक्त्वा दीक्षामुपाददे / साम्प्रतं विहरत्युग्रविहारेण तपोनिधिः ततस्तच्चरितं श्रुत्वा, दृष्ट्वा तल्लब्धिवैभवम् / जैनेश्वरे स्थिरीभूतो, धर्मेऽहं मेरुशैलवत् गुरुं च शेषसाधूंश्च, प्रणम्याथ गतो गृहे / अन्यत्र विहरत्येष, भगवानपि निःस्पृहः 15 // 174 // // 175 // // 176 // // 177 // // 178 // // 179 //