________________ // 504 // // 505 // // 506 // . // 507 // // 508 // // 509 // यदैव विद्या कन्या सा, परिणीता तदैव मे / लीनो मोहः परं पार्श्वे, दग्धरज्जुसमः स्थितः यदा तु.परिणीतास्ताः, क्षान्त्यादिशुचिकन्यकाः / वैश्वानरादिसंहारस्वभावसमवस्थिताः गतोऽसौ लीनतरतां, तदाऽनीकसमन्वितः / पापोदयश्च संत्रस्तो, दूराद् दूरतरं गतः शान्ताबाधस्ततः कान्तान्वितः स्वबलसंयुतः / स्वसंवेदनसिद्धं स्म, वेद्मि सत्यं मुनेर्वचः अन्या अपिः धृतिश्रद्धामेधाविविदिषासुखाः / मैत्रीप्रमुदितोपेक्षाविज्ञप्तिकरुणादिकाः परिणीता मया कन्या:, शुभाशयमहीभृतः / ताभिः प्रौढं सुखं मेऽभूत्, स्त्रीभिर्विलसतः सह समागता अथाह्लादमन्दिर निर्मलाभिधाः / सूरयस्ते मया गत्वा, सर्वा तत्र वन्दिताः ततो विनयनम्रण, तेषामग्रे मयोदितम् / सम्पन्नो भवदादेशो, नाथ ! दीक्षाऽथ दीयताम् सूरिराह महाराज !, जातैव तव भावतः / .. दीक्षा किमधुना देयं, गृहस्थोऽपि यतिर्भवान् यदेव जातमधुना, वसतोऽपि गृहे तव / यतित्वेऽपि विधातव्यमिदमेव विशेषतः तथापि व्यवहारोऽत्र, लङ्घनीयो न धीमताम् / भावस्य दीयते हेतुर्द्रव्यलिङ्गं ततस्तव महाप्रसाद इत्युक्त्वा ततः प्रमदमेदुरः / / विधायाष्टदिनान्यर्हद्बिम्बपूजां मनोहराम् 228 // 510 // // 511 // // 512 // // 513 // // 514 // ' || 515 //