________________ // 492 // // 493 // // 494 // // 495 // // 496 // // 497 // सप्तमी कारयेन्मौनं, धर्म्य वा भाषयेद् वचः / अष्टमी लीनतां कार्ये(ये), कारयेद् यतनां तथा संपूज्याऽद्यदिने जैनपुगंधिष्ठायिका इमाः / शुद्धा चित्तसमाधाने, वेदिनिःस्पृहता कृता आध्यात्मिकमहःसंज्ञं, विस्तीर्णं तत्र निर्मितम् / कुण्डं धर्मेण भावाचिरुद्दीप्तं जातवेदसः ततो वृद्धकुलस्त्रीभिर्भावनाख्याभिरादरात् / स्नानाङ्गरागभूषादिवधूकर्म विनिर्मितम् ताभिरेव तथा शेषैः, स्नपितोऽहं नरेश्वरैः / शमतीर्थोदकैलिप्तोऽवधानैश्चन्दनद्रवैः भूषितः कोमलैर्दिव्यैः प्रत्याहारैस्तथांऽशुकैः / ततः प्रवृत्तो विपुलः, पाणिग्रहमहोत्सवः स्वयं चकार सद्बोधस्तत्र कार्य पुरोधसः / . ऋच उच्चारयन् वेदगता अभ्युदयावहाः . हूयन्ते कर्मसमिधः, क्षिप्यन्ते हुतयोऽनयाः / वितीर्यन्ते तथा लाजाञ्जलयो भववासनाः सांवत्सरः शुभं लग्नं, ददानोऽथ सदागमः / अकारयन्मम क्षान्तिदारिकायाः करग्रहम् / / शुभाशयाद्याः सर्वेऽथ, प्रमोदेन विजृम्भिताः / भ्रान्तानि मण्डलान्युच्चैः, प्रवृत्तोऽतिमहोत्सवः तस्मिन्नेव क्रमेणैव, लग्ने शेषा दयादिकाः / परिणीता मया कन्या, अष्टौ स्पष्टौजसाऽन्विताः ताभिः सहोपविष्टोऽहं, जीववीर्यवरासने / चारित्रधर्मराजाद्याः, सर्वेऽपि मुदिता भृशम् // 498 // // 499 // // 500 // // 501 // // 502 // // 503 //