________________ // 456 // // 457 // // 458 // // 459 // // 460 // // 461 // तदेतासु त्वया सम्यग, वर्तितव्यं महाशय ! / पुरुषौ दास्यतो राज्यमेताभिः पोषिताविमौ ततस्तद्वचनं पथ्यं, स्वीकृत्याहं पुनः पुनः / सद्बोधेन सह स्वैरं, विलसामि स्म लीलया चित्तवृत्तौ प्रविश्य स्म मन्त्रयामि मुहुर्मुहुः / मानयामि स्म सम्यक्त्वगृहिधर्मसदागमान् गतेषु कुर्वतश्चैवं, किञ्चिदूनेषु पञ्चसु / मासेषु मे भृशं तुष्टः, स कर्मपरिणामसट् ततस्तेन नृपाः स्वस्वकन्यादानेऽनुकूलिताः / प्रावर्तन्त विवेकाद्रौ, दातुमेताः पुरोदिताः अत्रान्तरे च विषयाभिलाषो मोहभूपतिम् / प्राह संसारिजीवोऽसाविमाः कन्या वृणोति चेत् ततो वयं परिक्षीणास्तन्नोपेक्षाऽत्र युज्यते / कर्तव्यः सर्वथा यत्नः, सत्त्वमालम्ब्य निर्भयम् तावद् भयेभ्यो भेतव्यं, यावद् भयमनागम् / आगतं तु भयं दृष्ट्वा, प्रहर्तव्यमशङ्कितैः अनुमेने महामोहो, न्याय्यं तन्मन्त्रिणो वचः / समर्थितं भटैः शेषैः, सन्नद्धमखिलं बलम् / भूयः संभूय ते योद्धं, कृतोत्साहाः समागताः / जाताः पर्याकुलाश्चित्ते, केवलं दृष्टसाध्वसाः ततः सविनयं पृष्टा, सर्वैस्तैर्भवितव्यता / न्याय्यं किमधुनाऽस्माकं, भगवत्यभिधेहि नः / सा प्राह भद्र ! भवतां, रणारम्भो न युज्यते / यत् कर्मपरिणामोऽस्मिन्नार्यपुत्रेऽधुना हितः // 462 // // 463 // // 464 // // 465 // // 466 // // 467 // 14