________________ // 48 // * // 49 // // 50 // // 51 // // 52 // // 53 // जातो राज्ञो महान् तोषः, कारितश्चोत्सवो महान् / कृतं तन्नाम मदनमञ्जरीति शुभे दिने . . . वर्धिता सा सुखभरैर्जाता चित्तप्रमोदकृत् / कलौघं ग्राहिता सार्द्धं, सख्या लवलिकाख्यया उद्यौवना कलारूपातिशयैर्न ममोचितः / पुरुषोऽस्तीति बुद्ध्याऽभूत्, पुरुषद्वेषिणी ततः ज्ञात्वा पुत्र्याः स्वरूपं तद्, विषण्णाऽहं भृशं हृदि / मया निवेदितं राज्ञे, सोऽपि खेदमुपागतः, सोऽकारयत् समुत्पन्नधीः स्वयंवरमण्डपम्। . सर्वे तेन समाहूता, विद्याधरनरेश्वराः आगत्य सर्वे सर्वा , ते स्वयंवरमण्डपे। यथास्थानं स्थिता मध्ये, राजाऽपि सपरिच्छदः प्रविष्टाऽहं गृहीत्वा तां, वत्सां मदनमञ्जरीम् / तत्र प्रदर्शितास्तस्या, रूपतो गुणतश्च ते दृष्ट्वा सा तत्र निखिलान्, विद्याधरनरेश्वरान् / . न्यवारयत् घृणां धृत्वा, तन्मिथ्यागुणवर्णनम् जगौ च मात तेषु कोऽपि मे रोचते वरः। . तदाकर्ण्य विषण्णाऽहं, तद् भूपाय निवेदितम् विषण्णः सोऽपि मां प्राह, वत्सा वेश्मनि नीयताम् / माऽस्या भूद् वपुरस्वास्थ्य, चित्तदुःखोदयादिति निर्गताऽहं ततो लात्वा, तां स्वयंवरमण्डपात् / प्राप्ता सा स्वीयभवनं, निषण्णाऽविरताग्रहा ततो लवलिका प्राह, मां मातः ! को भविष्यति / अस्याः पाणिग्रहोपायो, मया प्रोक्तं न वेम्यहम् 190 // 54 // // 55 // // 56 // / / 57 // // 58 // // 59 //