________________ ॥नवमः स्तबकः // // 2 // // 3 // // 4 // // 5 // अथास्ति सप्रमोदाख्यं, पुरं कैलाससन्निभम् / यत् सर्वमङ्गलोल्लासिमहेश्वरविराजितम् निरीक्ष्यादृष्टपूर्वान् यल्ललनालोकविभ्रमान् / जाता किं विस्मयादेव, निनिमेषाः सुराङ्गनाः तत्रोन्मूलितशत्रुस्त्रीपत्रवल्लिविराजते। राजा राजन्यगन्धेभसन्निभो मधुवारणः / योगीवाभूत् परपुरप्रवेशैककुतूहली। यत्खडगस्तद्यशःक्षीरपानमात्रधृतव्रतः क्षुब्धोऽब्धिर्यन्महादानजलसात्कारवाञ्छया / पितुर्दुःखादतो दग्धा, कुक्षिर्लक्ष्ममिषाद् विधोः तस्य चास्ति महादेवी; लावण्यगुणशालिनी / कृतरम्भामनःस्तम्भा, धाम्ना नाम्ना सुमालिनी निवेशितोऽहं तत्कुक्षौ, पुण्योदययुतस्तया। निष्कान्तः कालपर्यायात्, सह पुण्योदयेन च संजातं मयि जाते च, सोल्लासं नृपमन्दिरम् / उद्गते महसां पत्यावम्भोरुहवनं यथा कृतं पित्रोचिते काले, नाम मे गुणधारणः / संप्राप्तो लालितो वृद्धि, धात्रीभिः पञ्चभिस्ततः इतश्चास्ति सगोत्रो मत्पितुर्मित्रं नरेश्वरः / यथार्थनामा तनयस्तस्य चास्ति कुलन्धरः वर्धमानो दृढस्नेहः, सह तेन सुमेधसा / जातोऽहमर्पितस्वीयमन:सद्भावगोचर: // 7 // // 8 // // 9 // // 10 // // 11 // 186