________________ // 780 // // 781 // // 782 // // 783 // // 784 // // 785 // चारकेऽहं स्थितस्तत्र, पङ्कविण्मूत्रपिच्छले / तृषितः क्षुधितो बद्धस्ताडितो बालकैरपि राज्यभ्रंशसमुत्थेन, महादैन्येन पीडितः / प्राप्तो नारकवत् तापं, शारीरं मानसं तथा तथाऽपि मोहदोषेण, निविण्णो न भवादहम् / सुचिरं चारके तत्र, दुःखान्यनुभवन् भृशम् क्रोधान्धः सर्वलोकेषु, नानासंकल्पकीलितः / रौद्रध्यानशिलाक्रान्तो, भूरिकालमहं स्थितः अथ गुटिका जीर्णा सा, प्राक्तनी भवितव्यता / दत्त्वाऽपरां तां पापिष्ठावासपुर्यां निनाय माम् सप्तमे पाटके तत्राप्रतिष्ठानगृहे स्थितः / सागराणि त्रयस्त्रिंशन्निभिन्नो वज्रकण्टकैः पञ्चाक्षपशुसंस्थाने, ततश्च शफरोऽभवम् / . पुनर्गतोऽप्रतिष्ठानं, शार्दूलोऽहं ततोऽभवम् ततः पापिष्ठवासायां, गतोऽहं तुर्यपाटके / ततो मार्जारतां प्राप्तः, सोढं दुःखं मयाऽतुलम् मुक्त्वाऽसंव्यवहाराख्यं, नगरं भवितव्यता / इत्थं स्थानेषु सर्वेषु, परिभ्रमयति स्म माम् भोजयन्त्या महामोहपरिग्रहफलान्यहम् / तयाऽगृहीतसंकेते !, योनौ योनौ विडम्बित: भ्रमतोऽनन्तकालं मे, तुष्टाऽथ भवितव्यता / श्रान्ताः इव तनूभूता, मोहाद्या अपि विद्विषः पुनर्ग्रन्थिसमीपस्था, जाता मे कर्मणः स्थितिः / / नीतोऽहं भरतक्षेत्रे, भवितव्यतया ततः 177 // 786 // // 787 // // 788 // // 789 // // 790 // // 791 //