________________ सर्वेषां जायते ज्ञानमस्मादेव सदागमात् / त्वमप्येनं प्रपद्यस्व, कोविदाचार्यसेवया // 576 // मया तदनुरोधेन, प्रतिपन्नः सदागमः / मुदितेन ततः किञ्चिद् विरलीभूतकर्मणा - // 577 // तद्गुणान् कोविदाचार्यो, मम कांश्चिदबोधयत् / भद्रकत्वं ततः किञ्चिज्जातं श्रद्धानवर्जितम् // 578 // साधुदाननमस्कारपाठार्हद्वन्दनादिकम् / अकलङ्कानुरोधेन, मया किञ्चित् तदा कृतम् // 579 // अकलङ्कस्तु संपृच्छय, मातापित्रादिकं जनम् / .. जग्राह कोविदाचार्यसन्निधौ संयमं तदा // 580 // विजहार च तेनैव, सार्द्धमन्यत्र शुद्धधीः / नष्टाज्ञानः शिवाकाङ्की, कष्टानुष्ठानकारक: // 581 // इतश्चाह महामोहं, सदागमहतच्छविम् / ज्ञानसंवरणं ज्ञात्वा, रागकेसरिमन्त्रिराट् // 582 // इयन्तं यद्बलात् कालं, वयं चिन्तोज्झिताः स्थिताः / ज्ञानसंवरणो भीतः, स समेतात् सदागमात् // 583 // असौ संसारिजीवस्य, तन्नोपेक्ष्यः स्थितोऽन्तिके / नखच्छेद्यं हि न प्राज्ञः, कुठारच्छेद्यतां नयेत् // 584 // इदं मन्त्रिवचः श्रुत्वा, महामोहसभाऽखिला / क्षुब्धा योधा महाक्रोधाः, सर्वे जाता रणोद्यताः // 585 // हन्तव्यः स महापापो, मया गत्वा सदागमः / इति प्रत्येकमुक्त्वा ते, स्थिता नृपमुखेक्षिणः // 586 // महामोहोऽवदद् वत्सा !, यूयं कर्तुमिदं क्षमा: / / मया हतो हतो नूनं, सर्वैर्युष्माभिरेव सः // 587 // 160