________________ मुनिराह स तत्रैतां, दिशं गुरुरदर्शयत् / सन्ति गर्भगृहे तत्र, लेश्याः षट् परिपालिकाः // 492 // क्रमात् क्रूरतमाः क्रूरतराः क्रूराः स्वरूपतः / तद्वानराहिता गर्भगृहानर्थप्रपञ्चिकाः // 493 // दुःखाकुले हट्टमार्गे, तवाप्यत्रैव धारिकाः / निवारिका मठमतेस्तिस्रस्तत्रादिमाः स्मृताः // 494 // उपरिस्थाः पुनः शुद्धविशुद्धातिविशुद्धकाः / चित्तस्य हितदा गर्भगृहशुद्धिविधायिकाः // 495 // निस्सारिकास्तवाप्यस्माद्धट्टमार्गाद् विगर्हितात् / तिस्रोऽनुकूला वर्तन्ते, शिवालयमठे गतेः // 496 // परिणामाभिधः षड्भिरप्यमूभिश्च दर्दः / कृतोऽस्ति गर्भगेहेऽस्मिन्नुपर्यारोहणार्थकः // 497. // तत्रोर्ध्वमध्यवसितिस्थानाख्याः पदिकाः कृताः / पृथक् पृथगसंख्याताः, स्वस्ववर्णसमत्विषः . // 498 // संस्थितं तत्र पदिकास्वाद्यत्रयकृतासु तत् / .. चित्तवानरमुत्प्लुत्य, विषवृक्षेषु धावति // 499 // ततो भवत्यनर्थानां, भाजनं प्रोक्तया दिशा / क्वचिन्नष्टं क्वचिल्लीनं, क्वचित् तप्तं क्वचिज्जडम् // 500 // आरोहणीयं तेनोवं, ताभ्यो निस्सार्य तत् त्वया / आरोहतस्ततस्तुर्यपदिकासु प्रतिक्षणम् // 501 // यास्यन्त्युपद्रवाः काश्य, तापः स्तोको भविष्यति / तस्याम्रकाभिलाषश्च, मनागल्पीभविष्यति // 502 // शोषं यास्यत्यार्द्रतेषद्, रजः किश्चिच्छटिष्यति / / ततो मनाक् सुखं लब्ध्वा, तद् भविष्यति भास्वरम् // 503 / / . 153