________________ // 408 // // 409 // // 410 // // 411 // // 412 // // 413 // तत्र कार्मणतन्वाख्यमस्ति गर्भगृहं बृहत् / गवाक्षाभिमुखानेकक्षयोपशमरन्ध्रभृत् . तत्रास्ति कपिरूपं च, चित्ताख्यमतिचञ्चलम् / सहैव तेन भवता, दीक्षा ग्राह्या सुखेच्छुना नाकाण्डे शक्यते त्यक्तुं, तत् कर्तव्यं सुरक्षितम् / विद्यते गर्भगृहके, भूयांसोऽस्य ह्युपद्रवाः तत्रेदं भक्ष्यते दीनं, कषायैर्दुष्टमूषकैः / वृश्चिकै!कषायैश्च, दशद्भिः परिपीड्यते , मोहमार्जारदुःसंज्ञामार्जारीभिश्च खाद्यते / .. रागद्वेषाभिधश्यामोन्दुराभ्यां च विलुप्यते ताप्यते दंशमशकैरुपसर्गपरीषहैः / .. विह्वलीक्रियते वज्रतुण्डैर्दुर्बोधमत्कुणैः , पीड्यतेऽलीकचिन्ताभिर्गृहगोधाभिरन्वहम् / . कृकलासैः प्रमादाख्यैर्दारुणैरभिभूयते त्रोट्यते षट्पदीजालैरविरत्यभिधैः सदा / मिथ्यादर्शननाम्ना च, तमसा परिभूयते ततः पतति तद्भरिवेदनाभरनिःसहम् / रौद्रध्यानमहागर्ते, दुष्टव्यालचतुष्टये . अप्रमत्तेन तदिदं, रक्षणीयं त्वया सदा / तस्यायं रक्षणोपायः, श्रूयतां शुद्धचेतसा सन्ति तत्रापवरकगवाक्षद्वारपञ्चके / विस्तारभाजः पञ्चैव, विषया विषपादपाः दारुणास्ते स्वरूपेण, नाम्नाऽपि व्यथयन्त्यदः / . घूर्णयन्त्यपि गन्धेन, चलयन्त्यपि दर्शनात् // 414 // // 415 // // 416 // // 417 // // 418 // // 419 // 146