________________ // 396 // // 397 // // 398 // // 399 // // 400 // // 401 // तत्र नाम्ना महामोहो, बलाधिकृत उच्यते / ' कामादयश्च तद्धृत्या, रोरा निष्पुण्यका जनाः तत्र जीवाधमर्णानां, धनिकैः कर्मनामकैः / विधीयते धरणकं, दुर्मोचं खेदकारणम् मत्ताः कलकलायन्ते, कषायास्तत्र डिम्भकाः / भ्रमन्ति च प्रमादाख्याः, षिङ्गाश्चित्रविलोकिनः अञ्जिते मुनिना ज्ञानाञ्जनेनात्र स्थितस्य मे / अनेनाक्ष्णि ततोऽत्रस्था, दृष्टाः सर्वेऽपि दुःखिताः ज्ञानाञ्जनस्य माहात्म्याद्, दृष्टो दूरे स्थितो मया / हट्टवीथिमतिक्रम्य, शिवसद्माभिधो मठः तत्र दृष्टा मयाऽनन्ताः, सिद्धा व्याधिविवर्जिताः / सर्वातिशयितानन्दा, उपयोगस्वलक्षणाः ततो हट्टाध्वनो मेऽभूनिर्वेदो मठरागतः / . उक्तश्चायं महाभागो, मया साधुः कृपाम्बुधिः जायते क्षणमप्यत्र, हट्टमार्गे रतिर्न मे। . त्यक्त्वैनं तत् त्वया सार्द्ध, मठे यामि शिवालये मुनिनोक्तं यियासुश्चेन्मठे दीक्षां गृहाण तत् / मयोक्तं दीयतां नाथ !, तेन दत्ता प्रसेदुषा उपदिष्टा मठप्राप्तेरितिकर्तव्यता च मे / तिष्ठामि तामहं कुर्वनकलङ्कस्ततोऽभ्यधात् कीदृशी गुरुणोक्ता ते, मठस्य प्रापिका क्रिया / मुनिराह महाभाग !, गुरुरित्थं ममादिशत् परिग्रहेऽस्ति ते सौम्य ! वासापवरकः किल / कायाभिधानः पञ्चाक्षगवाक्षकृतविभ्रमः // 402 // // 403 // // 404 // // 405 // // 406 // // 407 / / 145