________________ // 156 // // 157 // // 158 // // 159 // // 160 // // 161 // तो व्यक्षास्ततस्त्र्यक्षास्ततश्च चतुरिन्द्रियाः / ततश्चासंज्ञिपंञ्चाक्षाः, कीर्तिता नारकास्ततः ततः पञ्चाक्षतिर्यञ्चस्ततः संमूर्छगर्भजाः / नराश्चतुर्विधा देवाः, संगीतास्तदनन्तरम् वाचोयुक्त्या ततः प्रोक्ताः, ब्राह्मणा इति संयताः / मुक्तात्मानस्ततो गीता, भवापानकनिर्गताः एतेषु स्थानदशके, भ्रान्तिं स्वस्य पुनः पुनः / वदन्नदीपयदसौ, भवापानकदुःस्थताम् यत्तु तैर्ब्राह्मणैः पश्चाद्, दृष्टो यत्नेन बोधितः / अहमित्यादि कथितं, युक्त्या तद् युज्यतेऽखिलम् अनादिभव्यभावेन, प्राप्ता घर्षणघोलनात् / . उत्कृष्टादिस्थितिहासे, द्रव्यश्रुतिरनन्तशः तथाऽपि यन्न लभते, सद्ज्ञानं न च दर्शनम् / न चारित्रं च जीवोऽसौं, कर्मघस्मरकः स्मृतः भ्रान्तचित्तः स तेनैव, बम्भ्रमीति भवोदधौ / सद्दर्शनमवाप्नोति कदाचित् कश्चिदेव हि कालादियोगतो भित्त्वा, कर्मग्रन्थिं शुभाशयात् / / ततः साधुवचोबोधो, योऽसौ हुङ्कार उच्यते / दर्शनं मुक्तिबीजं च, सम्यक्त्वं तत्त्ववेदनम् / दुःखान्तकृत् सुखारम्भः, पर्यायास्तस्य कीर्तिताः सति चास्मिन्नधन्यात्मा, रमते भववारिधौ / रूपं निरूपयत्यस्य, स्पष्टं नष्टाक्षिरोगवत् तद् दृष्ट्वा चिन्तयत्येवमहो भीमो भवोदधिः / दुःखाय जन्ममरणव्याधिशोकैरुपद्रुतः 125 // 162 // // 163 // // 164 // // 165 // // 166 // // 167 //