________________ // 455 // // 456 // // 457 // // 458 // // 459 // // 460 // धार्यो व्रतोचितो वेषो, विहर्तव्यमसङ् गिना / आहारोपधिशय्यादिशुद्ध्या कार्याऽङ्गयापना देयो नैवावकाशश्च, निद्राऽऽलस्यादिविद्विषाम् / जातु नाध्युपपत्तव्यं, हृद्येषु विषयेषु च जुगुप्सनीया न पुनः, कुरूपाद्यर्थसन्ततिः / क्षालनीयः सदैवात्मा, निर्मलैर्भावनाजलैः धार्याः समितिसन्तोषतपःस्वाध्यायमुक्तयः / तितिक्षितव्यास्त्रिविधोपसर्गाश्च परीषहाः यतितव्यमसम्पन्नयोगेषु धृतिधीजुषा / तत्रेत्थं कुर्वतो राज्ये, प्रवेशो नृपतेर्भवेत् तत्र राज्ये प्रवेष्टव्यं, तत् त्वयाऽप्यनया दिशा / स्वाङ्गिकश्च ग्रहीतव्योऽभ्यासनामा सहायकः सैन्याच्चारित्रधर्मस्य, परो वैराग्यनामकः। .. समेष्यति सहायस्ते, ताभ्यां सिद्धिः करे तव ताभ्यां युक्तेन भवता, रोद्धव्याऽन्तर्द्विषां गतिः / तत्सैनिका निहन्तव्या, स्थिरीकार्या सुहृच्चमूः पूर्वद्वारे प्रवेष्टव्यं, तत्र राज्ये त्वया ततः / सन्ति तद्वामदिग्भागे, पूर्णामादीनि विद्विषाम् सुहृदां दक्षिणे भागे, चित्तवृत्तिमहाटवी / . सर्वाधारा पुनस्तेषां, तदन्ते निर्वृतिः पुरी अस्ति पश्चिमदिग्भागे, स्थिताऽतीत्य महाटवीम् / तव राज्यफलं पूर्ण, तां प्राप्तस्य भविष्यति तस्यामेव त्वयाऽन्यत्र, गन्तव्यमविलम्बिना / औदासीन्याभिधमहाराजमार्गममुञ्चता . 103 // 461 // // 462 // // 463 // // 464 // // 465 // // 466 //