________________ प्रीताश्चारित्रधर्माद्याः, श्रुत्वा तां मन्त्रिणो गिरम् / चक्रुर्वर्धनकं लोकाः, प्रवृत्ता गातुमुच्चकैः // 443 // अहो उत्तमराज्येऽस्मिन्, परिमोषिगतिक्षतिः / भविष्यति क्रमेणेदं, सतामानन्दकारणम् // 444 // स्थितिमुत्तमराज्यस्य, तामाकर्ण्य महोदयाम् / / महामोहादयो भीता, मुक्तप्राणा इंव स्थिताः / // 445 // अथ राज्यं समासाद्य, पितुरुत्तमभूपतिः / तदा पप्रच्छ सिद्धान्तं, सर्वां राज्यस्थिति निजाम् // 446 // कथं तत्र प्रवेक्ष्यामि, महाराज्येऽतिदुर्गमे / चौरान् कथं हनिष्यामि, का नीतिः श्रेयसी मम ||447 // स्फोरणीयं मया स्थाने, पौरुषं कुत्र कीदृशम् / तत् सर्वं वद वेत्ताऽस्ति, सर्वोपायविधेर्भवान् // 448 // पृष्टः सन्नुत्तमेनैवं, सिद्धान्तः समभाषत / वत्स ! राज्यस्य योग्योऽसि, नात्रार्थे कोऽपि संशयः // 449 // उद्दिश्य मोक्षं तनुषे, धर्म संसारभीतिभाग् / यशः सुखं च ते तत्र, बाधकं नानुषङ्गिकम् // 450 // पित्रा राज्यं प्रदत्तं यत्, तद् ज्ञातं तत्त्वतस्त्वया। . प्रवेशोपायमेनं च, तत्र विद्धि नरोत्तम ! // 451 // प्रष्टव्या गुरवः पूर्वं, राज्ये प्रविशताऽऽन्तरे / अध्येतव्यं तदादिष्टं, धर्मशास्त्रं प्रयत्नतः // 452 // विभाव्यस्तस्य भावार्थः कार्या तद्विहितक्रिया / सन्तः सेव्यास्तथाऽसन्तस्त्याज्या धार्या दया हृदि // 453 // वचः सत्यं मितं वाच्यं, नादत्तं ग्राह्यमण्वपि / / . कामिन्यो विषवद् ज्ञेया, मोच्यः सर्वपरिग्रहः . . // 454 // 102