________________ संत्रस्तकरियूथं च, धूमं चाद्राक्षमुत्थितम् / अश्रौषं वेणुविस्फोटरवं च नवमन्यदा. // 223 // सम्भ्रान्तोऽहं ततः पश्चाल्लानो भूभागमीक्षितुम् / उत्तानः पतितः कूपे, सम्प्राप्तस्तीव्रवेदनाम् // 224 // यूथत्राणासमर्थस्य, ममेदं युक्तमागतम् / इति भावयता दुःखं, सप्तरात्रं तितिक्षितम् अनेन शुभभावेन, तुष्टा मै भवितव्यता / पुरुषं सुन्दराकारमेकं प्रादर्शयत् पुरः , उवाच च महाभाग, नरः पुण्योदयो ह्ययम् / सहायोऽयं मया दत्तो, भवतः परितुष्टया // 227 // जीर्णाऽथ पूर्वदत्ता मे, गुटिकाऽन्यां ददौ च सा / ... छन्नः पुण्योदयो भूत्यै; भूयादित्याशिषं, ददौ // 228 // इति कथयति तस्मिन् धीविशालां बभाषे, वचनमविदितार्थं शङ्कमानोऽथ भव्यः / स्फुटमकथयदर्थं साऽपि सामान्यरूपं, प्रथनकृतविलम्बः श्रव्यशोभां निहन्ति // 229 // भवति हि भवजन्तुः सर्व एवैकनामा, भवविलसितभेदं याति चावर्तमानः / तदखिलमुपपन्नद्रव्यपर्यायरूपं, कलयति सुमतिर्यस्तं वृणीते यशःश्रीः // 230 // 55