________________ तत आदाय शलाका, विन्यस्याग्रे तदञ्जनं दिव्यम् / आधूनयतो ग्रीवां, तस्यानेनाञ्जिते नेत्रे . . // 100 // तस्याचिन्त्यगुणत्वात् सद्योऽमुष्याथ चेतनाऽऽयाता / .... नेत्रे स्फुटमुद्घटिते, नष्टा इव तद्गदाः सर्वे // 101 // आह्लादितश्च स मनाक्, तथापि भिकरक्षणाकूतम् / / प्रागभ्यासान्न गतं, तेन ततो नंष्टुकामोऽभूत् // 102 // नष्टविवेकस्यापि, प्रतिबोधर्मतिर्मुरोरिह शलाका / तद्दाक्षिण्यविधिभवं, सत्त्वं चाग्रेऽञ्जननिधानम् // 103 // . भद्र ! न कथमेहीति, प्रश्ने यव्यक्तवचनमेतस्य / . न क्षमिकोऽहं श्रमणास्तद्ग्रीवाधूननेन समम् // 104 // इत्थमपि मदनुरोधादागमनाभिग्रहस्त्वया ग्राह्यः / इति गुरुणोक्ते तस्योपगमो नेत्राञ्जनन्यासः // 105 // अथ गच्छतः प्रतिश्रयमनुदिनमनुपाधिमुनिगुणालोकात् / या भवत्यविवेककला, सा नष्टा चेतनाऽऽयाता // 106 // नेत्रोद्घटनं चैतद्, या भूयो भवति धर्मजिज्ञासा / सा नेत्ररोगशान्तिः, प्रतिकलमज्ञानविलयो यः // 107 // आह्लादश्च ज्ञेयो, विलयादान्ध्यस्य शमलवानुभवः / / विषयेषु तत्त्वबुद्धिभिक्षारक्षाशयानुगमः // 108 // व्यवहारश्रुतलाभेऽप्यधिगमसम्यक्त्वशुद्ध्यभावेन / प्रथमदशायां सम्यग्दृशोऽपि न च नैष सम्भवति // 109 // तेनातिचारविधुरो, मृगयिष्यन्ते नु मामिमे मुनयः / . इति तान्न परिचिचीषति, तदुच्यते नंष्टुकामत्वम् // 110 // पिब तत्त्वप्रीतिकरं, पय इति तं प्राह गुरुरथाञ्जनतः / . संप्रेक्ष्य जातचेतनमिच्छति स तु न स्म तत्पातुम् . // 111 // . 33