________________ बद्धाञ्जलिः कोरकितैर्दुमौर्धे-लताप्रतिक्षिप्तमिलिन्ददृष्टिः / '' उदीतनव्याङ्कुरकण्टकश्री-मूंछौं गतः पञ्चममूर्च्छनाभिः // 756 // तैस्तैर्विलासैरनवग्रहोऽपि, नवग्रहावेशविकारदर्शी / ... अपत्रपः सद्दलरक्षकोऽपि, कृतोदयोऽप्युत्कलिकालसत्तः (अष्टभिःकु०)॥७५७ ततो विमर्शोऽन्ववदत् प्रकर्ष, काले तवेच्छा भवचक्रदृष्टेः / अस्याधुना सुन्दरता हि गुर्वी, पीयूषरश्मेरिव पूर्णिमायाम्।। 758 // धावन्ति लोका बकुलद्रुमेषु, कुर्वन्ति लीलां स्मितमाधवीषु / लुभ्यन्ति पश्यारुणपल्लवेषु, न यान्ति तृप्ति सहकारवृक्षे // 759 // लताः सुभुक्ता मधुपैरतुच्छ-गुच्छश्रियः पाटलपल्लवाग्राः / इमाः स्वतुल्याः कुलटाः श्रयन्ति, लसत्कराः पीनकुचाभिरामाः।। 760 // समुद्यतानां कुसुमोच्चयाय, स्त्रीणां कुचस्पर्शमवाप्य मत्ताः। .. स्वेदं सुमौधैर्मरुता च कम्पं, किं सात्त्विकं न स्फुटयन्ति वृक्षाः // 761 / / पश्यैष चित्तेषु वियोगिनीनां, द्विजोऽग्निहोत्राय पिकः प्रवृत्तः / पाठः श्रुतेरस्य निशम्यतेऽसौ, नादो नु साक्षीकृतकामदेवः।। 762 // उच्चैःस्थितं लातुमपारयन्ती, प्रियां प्रियोऽत्र स्तनभारनम्राम् / दत्ते लतापुष्पमुदीतमोहो, मुहुर्मुहुश्चुम्बननिष्क्रयेण // 763 // लतानिकुञ्जेषु लसन्ति यूनां, बन्धैर्विचित्रैरिह मैथुनानि / तैरेव पुष्पैः स्मरमल्लयुद्धा-वलोकनानन्दिभिरचितानि // 764 // कान्तारदेशाः कुसुमोच्चयेच्छु-कान्तापदालक्तकरक्तभासः / संक्रान्तमन्तः कुसुमेषु रागं, बलादमान्तं बहिरुगिरन्ति // 765 // निरीक्ष्य दोलासु विलोलनेत्रा, विस्तारिहाराः परिवर्तमानाः / स्मरोऽपि भूयोलयघूर्णमान-भोगीन्द्रभृच्छम्भुधिया बिभेति।। 766 // सुवासितं सन्मणिभाजनस्थं, जना घनाम्भोरुहसौरभेण / प्रियाधरास्वादसुधानवा, पिबन्ति हृद्याम्रवनेषु मद्यम् // 767 // 114