________________ // 674 // // 675 // // 676 // // 677 // // 678 // // 679 // विमर्शः प्राह किं चित्रं, स्वभावावगताविह / नैकदोभयवेत्ता यत्, स्वभावादेव कश्चन सामान्यरूपा राजानस्तद्विशेषाः परिच्छदाः / क्रमिकज्ञानवेद्यत्वं, तेषां च प्रकृतिर्मता देशकालस्वभावैश्च, भेदोऽप्येषां न विद्यते / धवाद्या न तरोभिना, धवादिभ्यस्तरुन च केवलं यौगपद्येन, न सामान्यविशेषयोः / दृष्टिनैतावता दृष्टिरुपयोगे कमेक्षणात् तरुरेवेक्ष्यते दूराल्लक्ष्यन्ते न धवादयः / सन्निधौ तेऽपि दृश्यन्ते, दृश्यते न तरुः पृथक् तथापि तद् द्वयं दृष्टं, कालभेदेन कीर्त्यते / एकोपयोगदृष्टत्वाद्, घटरूपादिवद् बुधैः स्वभावाद्यैरभेदेऽपि, न सामान्यविशेषयोः / . संख्यादिभिः कृतो भेदव्यवहारोऽपि दुष्यति . सङ्ख्ययैकस्तरुर्जात्या, भूयांसः खदिरादयः / . संज्ञाऽपि तरुरित्येका, भेदिन्यश्च धवादिकाः अनुवृत्तिस्तरोस्तेषु, लक्षणं वीक्ष्यते पृथक् / धवाश्वत्थादिभेदानां, व्यावृत्तिश्च परस्परम् / कार्यं च तरुमात्रस्य, छायाद्यं पृथगेव हि / विशिष्टफलपुष्पादि, चूतादेरन्यदेव च / व्यवहारोऽपि सामान्ये, श्रुतस्कन्धेऽन्य एव हि / अन्य एव च दृष्टस्त-द्रेदेष्वध्ययनादिषु तस्माद्भेदं पुरस्कृत्य, मया प्रोक्ताः पृथक् पृथक् / राजानः परिवाराश्च, न भिन्नास्तत्त्वतस्तु ते // 680 // // 681 // // 682 // // 683 // // 684 // // 685 // 187