________________ स्वराङ्गभौमाद्भुतमन्त्रलक्षण-स्फुटेन्द्रजालादिविधानतत्परान् / मनस्विमुख्यान् गुणिनस्तपोधनान्, विदन्त्यनेनैव वशीकृता जनाः // 569 // अनेकमन्त्रांदिविदोऽपि निःस्पृहा-नबाधितान् दुर्जयलोकयात्रया। परप्रवृत्तौ बधिरान्धमूकका-निजार्थसिद्धौ सततं कृतोद्यमान् // 570 // अखर्वसर्वंकषगर्ववर्जितान्, प्रशान्तचित्ताननघांस्तपोधनान्। न वेत्ति दिव्यादिकथाश्लथादरा-ननेन लोको निहतो गुणाकरान्॥५७१ // तडागवाप्यादिविधानभूमिगो-हिरण्यदानादिषु यागकर्मणि। विनाटितोऽनेन हि धर्ममीक्षते, महोपमर्दादपि भूतसंततेः // 572 // क्षमामृदुत्वार्जवसत्यसंयमान्, तपःशमब्रह्मदमाप्रमत्तताः। कथितोऽनेन मनःप्रसादकान्, न वेत्ति धर्मानमृतोपमान् जनः // 573 // परिस्कि(ष्कि)यां मण्डपवेदिकासना-श्रयामसावातनुते निरन्तरम् / यदुत्थितैः कान्तिलवैर्बलत्यदो, जगत्त्रयं दोषकृशानुराशिभिः।। 574 // करोति यभैरवपातमुच्चकै-रटाट्यते धर्ममदादितस्ततः / ददाति धूर्ताय धनं च होमकृत, तदेतदुत्तेजितमण्डपोजितम् // 575 // प्रवेशमग्नौ पतिसंगमेच्छया, तथाऽग्निहोत्रं सुतभूतिकाम्यया। अनेन कष्टंसनिदानकंजनान्, परिस्कृ(ष्कृ)ताकारयतीहवेदिका // 576 श्रुतीः प्रमाणेन विना प्रमाणयन्, मुमुक्षुरप्याशु कुमार्गमृच्छति / भ्रमन्नदः संस्कृतविष्टरोजिताद्, गृहाश्रमं स्तौति यतींश्च निन्दति // 577 एतावदुक्त्वा विरते विमर्श, प्राह प्रकर्षोऽभिहितस्त्वयैषः / अर्धासने याऽस्य पुन:स्थितैषा, वराङ्गना कीर्तय तामिदानीम् // 578 // जगौ विमर्शः सुकुमारबुद्धे, फलाच्च धैर्याच्च समेयमस्य / भार्या कुदृष्टिः कुमतैकसृष्टिः, प्रत्यूहवल्लीवनमेघवृष्टिः // 579 // शाक्याश्च शैवाश्चरकाश्च यौगा-स्त्रिदण्डिनः पाशुपतास्तथाऽन्ये / मीमांसका जीवकदिक्पटाद्या, वितन्वतेऽस्या विवशा विवादम् // 580 // 108