________________ // 504 // // 505 // // 506 // // 507 // // 508 // // 509 // महारथः कुलीनोऽपि, विद्यावान् रूपवानपि / हिंसावैश्वानराश्लिष्टो, न श्लाघ्यो नन्दिवर्धनः उपेक्षितुं च युक्तोऽयं, नैव मे हितकारिणः / वर्तेत यदि मद्वाक्ये, स्यादस्य हितमुत्तमम् त्यजेदेकस्य दाक्षिण्यं, न तातसहितस्य मे / इति तातान्तिके स्थित्वा, शिक्षयाम्येनमञ्जसा अथ भूपं गृहीतार्थं, चक्रे कनकशेखरः / अन्यदा मां समीपस्थं, प्रशशंस महीपतिः तदा प्रोवाच कनकशेखरस्तात ! वर्ण्यते / यादृशस्ताहगेवास्ति, स्वभावानन्दिवर्धनः परमस्य कुसंसर्गाद्गुणौघो याति दुष्टताम् / . परमानं सुधास्वादं, गरलस्येव संक्रमात् हेतुः स्वान्योपतापानां, निखिलानर्थजन्मभूः / . सुहृद्वैश्वानरो ह्यस्य, प्राणेभ्योऽप्यस्ति वल्लभः . श्रूयमाणाऽपि नाम्नैव, जगतस्त्रासकारिणी / / हिंसा नाम्नी च भार्याऽस्य, विद्यतेऽवद्यमन्दिरम् इत्यस्य दुष्टसंसर्गाद, गुणवत्ताऽपि निष्फला / पुष्पवत्तेव नो याति, श्लाध्यतामवकेशिनः. नृपतिः प्राह यद्येवं, श्रेयांस्त्यागस्ततस्तयोः / स्वीयोऽपि मलवत्त्याज्यः, स्वमालिन्यकरो हि यः अनेन वचसा बाढं, हुताशेनेव सर्पिषा / मया प्रज्ज्वलितेनाग्रे, तयोर्धगधगायितम् उक्तं च रे दुरात्मानौ ! युवां मत्तोऽपि पण्डितौ / येनैवं मातृमुखवन्मां शिक्षयितुमुद्यतौ // 510 // // 511 // // 512 // // 513 / / // 514 // // 515 // 109