________________ // 432 // // 433 // // 434 // // 435 // // 436 // // 437 // सा मन्मनोरथारूढा, श्रान्तश्चित्रं तथाऽप्यहम् / गतोऽपि तन्मयींभावं, निःश्वासौघममूमुचम् तद्गोचरैर्विकल्पौधैर्दूरापहृतचेतसः / कोटियामेव वितता, त्रियामा सा ममाभवत् तथाऽहं तापितः शय्यागतस्तद्विरहाग्निना / निद्रयाऽपि तथा त्यक्तस्तापसंक्रमभीतया उदितेऽर्के गतेऽप्यर्धप्रहरे शून्यमानसः / स्थितस्तेतलिना दृष्टः, प्रणामायाभ्युपेयुषा दुःखस्य कारणं पृष्टं, भक्तिप्रह्वेन तेन मे / संगोप्यैव मया प्रोक्तो, वृत्तान्तोऽथ तदग्रतः हट्टमार्गमतिक्रम्य, यदानीतस्त्वया रथः / धृतो राजकुलाभ्यर्णे, ततो जातमिदं मम सर्वाङ्गाणि विलीयन्ते, मनस्तापः प्रवर्धते / . न रोचन्ते जनोल्लापाः, शून्यायन्ते दिशोऽखिलाः श्रुत्वेदं तेतलिः प्राह, चक्षुर्दोषोऽत्र कारणम् / करिष्याम्यौषधं चास्य, नरशार्दूल ! मा शुचः ज्ञात्वा तमथ भावज्ञं, मयोक्तं सुष्ठ दृष्टवान् / भवान्निदानमधुना, भेषजं वक्तुमर्हति स प्राह लवणोत्तारः, कार्यतां बध्यतां करे। औषधी जाप्यतां मन्त्रो, यथा दोषो विनश्यति यद्येवमपि दोषस्य, विनाशो न भविष्यति / बाढं निर्भर्त्सयिष्यामि, चक्षुर्दोषकरीं तदा ततः स्मित्वा मया प्रोक्तं, कृतं हासेन तेतले ! / मदुःखविगमोपायं, निश्चितं कथयाधुना // 438 // // 439 // // 440 // // 441 // // 442 // // 443 // - 103